Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-'येने ' ति 'जेण तओ पासत्थाइ (गा.१०३) इत्यतः संबध्यते ततो येन भगवता असहायेनापिएकाकिनापि परकीयसाहायकनिरपेक्षम् अपि-विस्मये अतीवाश्चर्यमेतत् विधिः आगमोक्तः षष्ठकल्याणकप्ररूपणाचैत्यवासिनिरासादिरूपश्चैत्यादिविषयः पूर्वदर्शितश्च प्रकारः 'प्रकर्षेणेदमित्थमेव भवति यात्रार्थेऽसहिष्णुः स वावदीतु' इति स्कन्धास्फालनपूर्वकं साधितः सकललोकप्रत्यक्ष प्रकाशितः। यो न शेषनरीणाम्-अपराचार्याणामज्ञातसिद्धान्तरहस्याणामित्यर्थः, लोचनपथेऽपि दृष्टिमार्गेऽपि आस्तां । श्रुतिपथे व्रजति-याति,उच्यते पुनर्जिनमत ः भगवत्प्रवचनवेदिभिरिति गाथार्थः ॥ १२२ ।। तथाघणजणपवाहसरिआणुसोयपरिवत्तसंकडे पडिओ।पडिसोएणाणीओ,धवलेण व सुद्धधम्मभरो॥१२३॥ ___ व्याख्या-येनेति पूर्ववत् ततो येन धवलेनेव-'विकटशकटधुराप्राग्भारधारणक्षमः स्वशक्तिसमुचितोत्साहनिर्वाहितसिकतोत्कटदुर्गमार्गनिपतितनानाद्रव्यनिचितशकटो वृषभो 'धवलः' इति लोके गीयते' आनीता आरोपितः अवतारितः संस्थापित इत्यर्थः, कोऽसौ ? शुद्धधर्मभर मिथ्यात्वोत्सूत्रदेशनागड्ढरिप्रवाहरहितः शुद्धधर्मस्तस्य भरः " भरोऽतिशयभारयोः" इति ( हैमानेकार्थ० ४५०) पाठाद् अतिशयः प्राचुर्यमिति यावत् । धवलपक्षे च भर:=भारः, केनातीतः? इत्याह-प्रतिश्रोतसा प्रतीपप्रवाहेण लोकमार्गातिक्रान्तेनेत्यर्थः । किमसौ क्वापि दुर्गस्थाने निपतितोऽभूत् ? एवमित्याह-'धणजणपवाहसरियाणुसोयपरिवत्तसंकडे पडिओ' ति, घनाः प्रभृतास्ते च ते जनाश्च घनजनास्तेषां प्रवाहो-विमर्शशून्यानुष्ठानं स एव सरित-तरङ्गिणी तस्या अनुश्रोत:-प्रवाहमार्गस्तत्र परिवर्त: आवर्तस्तस्य संकटं वैषम्यं धनजनप्रवाहसरिदनुश्रोतः परिवर्त REGARA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195