Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 170
________________ Shri Mahavir Jain Aradhana Kendra गणधर सार्द्ध शतकम् । ॥ ६१ ॥ www.kobatirth.org मौनी अहं ध्यानी अहं शाब्दिकोऽहं तार्किकोऽहं सैद्धान्तिकोऽहं तान्त्रिकोऽहं सकलशास्त्रपरिमलितमतिः किं बहुना ? नास्ति कश्चित् त्रिभुवनेऽपि तुल्यो मया' - इत्याद्यहङ्कारविकारधारकः, जगति लोके प्रकट:- षडशीतिप्रकरण - सार्द्धशतकप्रकरण-पिण्डविशुद्धिकरण - श्रीधर्मशिक्षादि प्रकरण-सकलदिक्चक्रवालरङ्गाङ्गणनरीनृत्यमानकीर्त्ति नर्तकी कः, इति व्यतिरेकः । मेघो हि पवनेन हन्यते, तथा चलोऽस्थिरो भवति, प्रकटो दृश्यमानमूर्त्तिः सन् स गर्जितो भवतीति गाथायुगलार्थः ॥ १२४ ॥ १२५ ॥ ननु जलधिर्मांस्ततोऽसौ महात्मा तेन समो भविष्यति ? नेत्याह कहमुत्रमिज्जइ जलही, तेण समं जो जडाण कयवुड्डी । तिअसेहिं पि परेहिं, मुयइ सिरिं पि हु महिजंतो ॥ १२६ ॥ व्याख्या - अस्यां गाथायां ' जेण समं ' इति न्याय्यः पाठः । कथमुपमीयते = समीक्रियते जलधिर्येन समं=सार्द्ध यो जडानां = जाड्योपहतानां वठरशेखराणां कृता = विहिता वृद्धिः = ऐश्वर्याद्यभ्युदयप्राप्तिर्येन स तथा तादृशः । एतावता कुपात्रलक्ष्मीवितरणेन गुणागुणविभागानभिज्ञत्वं तस्य लक्ष्यते, पात्रापात्रविचारौचित्यनिक्षिप्तज्ञान श्री सारवासौ भगवान् । यो मुञ्चति-त्यजति श्रियमपि = कमलामपि 'हुः पादपूरणे, कीदृशः सन् १ मध्यमानः = सुरादिभिर्वाध्यमान उपद्रूयमाण इत्यर्थः, कैः १ परैः शत्रुभिः । ननु कथञ्चित्ते शतसहस्रसङ्ख्या भविष्यन्ति ततः शूरोऽपि लक्ष्मीं विहाय स्वप्राणरक्षायै पलायते ?, तनहीत्याह - ' तिअसेहिं पि 'ति, त्रिभिर्दशभिरपि आस्तां शतेन सहस्रेण वेत्यपिशब्दार्थः । एतावता कातरशिरोमणित्वं तस्य For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री जिनवल्लभसूरीणां प्रपंच स्तुतिगर्भचरित्रादि ॥ ॥ ६१ ॥

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195