Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra गणधर - सार्द्ध शतकम् । ॥ ५४ ॥ www.kobatirth.org दीसइ य वीयराओ, तिलोयनाओ विरायसहिएहिं । सेविजंतो संतो, हरइ हु संसारसंतावं ॥ १०७॥ आसां (पृथक् ) व्याख्या- ' दीसह ' इत्यादि । ' यत्रे 'ति पूर्वगाथाया अनुवर्त्तते तेन चकारः संबध्यते ततो-यत्र |चायतने दृश्यते जनैरिति गम्यम्, वीतरागो भगवान् देवाधिदेवो नष्टरागः, राग इत्यस्याशेषदोषोपलक्षणत्वादष्टादशदोष| विनिर्मुक्तः कीदृश: ? त्रिलोके त्रिभुवने ज्ञातः - द्विरदरदनच्छेदः - कुन्दकुमुदविशद- कीर्त्तिकौमुदीधवलित निखिल ब्रह्माण्डमण्ड - पत्वेन विख्यातस्त्रिलोकज्ञातः । यदि वा सश्रीकनिःश्रीकेतरत्वावस्थितत्रिविधलोकेन ज्ञातः = तद्गतचित्तत्वेन तदेकाग्र दृष्टितया च यथावस्थितगुणो विदितः । कीदृशैर्जनैः १ विरागसहितैः - विरजनं विरागः = संसारवैराग्यं तेन सहितैः समेतैर्विरागसहितैर्न तु रागातुरैः, यो भगवान् सेव्यमानः = आराध्यमानः सन् हरते =अपनयति ' हु: ' पादपूरणे संसारसन्तापं भवदवमित्यर्थः ।। १०७ ।। वाइयमुवगीयं नमवि, सुअं दिट्ठमिट्ठमुत्तिकरं । कीरइ सुसाव एहिं, स-परहियं समुचिअं जत्था १०८ । व्याख्या - ' वाइयमुवगीय ' मित्यादि । यत्र आयतने वादितं शङ्खपटहभेरीमृदङ्गादीनां वादनं क्रियत इति योगः । न केवलं वादितं नाट्यमपि - लास्यमपि कथम् १ उपगीतं गानसमीपे यत् कीदृशं वादितं नाट्यं च ? यथासम्भवं श्रुतम्-आकर्णितं दृष्टम् - अवलोकितम् इष्टा = अभिमता या मुक्ति: = निर्वृतिस्तां करोतीति इष्टमुक्तिकरम् । कैः क्रियते ? इत्याह- सुश्रावकैः = शोभन श्राद्धैः । तदपि वादितं गीतं नाट्यं यत् समुचितं युक्तं न त्वनुचितं, तस्योपहासास्पदत्वादेवोक्तमनेनैव भगवता For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री जिनवल्लभसूरीणां सप्रपंच स्तुतिगर्भ चरित्रादि ॥ ॥ ५४ ॥

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195