________________
Shri Mahavir Jain Aradhana Kendra
गणधर - सार्द्ध
शतकम् ।
॥ ५४ ॥
www.kobatirth.org
दीसइ य वीयराओ, तिलोयनाओ विरायसहिएहिं । सेविजंतो संतो, हरइ हु संसारसंतावं ॥ १०७॥ आसां (पृथक् ) व्याख्या- ' दीसह ' इत्यादि । ' यत्रे 'ति पूर्वगाथाया अनुवर्त्तते तेन चकारः संबध्यते ततो-यत्र |चायतने दृश्यते जनैरिति गम्यम्, वीतरागो भगवान् देवाधिदेवो नष्टरागः, राग इत्यस्याशेषदोषोपलक्षणत्वादष्टादशदोष| विनिर्मुक्तः कीदृश: ? त्रिलोके त्रिभुवने ज्ञातः - द्विरदरदनच्छेदः - कुन्दकुमुदविशद- कीर्त्तिकौमुदीधवलित निखिल ब्रह्माण्डमण्ड - पत्वेन विख्यातस्त्रिलोकज्ञातः । यदि वा सश्रीकनिःश्रीकेतरत्वावस्थितत्रिविधलोकेन ज्ञातः = तद्गतचित्तत्वेन तदेकाग्र दृष्टितया च यथावस्थितगुणो विदितः । कीदृशैर्जनैः १ विरागसहितैः - विरजनं विरागः = संसारवैराग्यं तेन सहितैः समेतैर्विरागसहितैर्न तु रागातुरैः, यो भगवान् सेव्यमानः = आराध्यमानः सन् हरते =अपनयति ' हु: ' पादपूरणे संसारसन्तापं भवदवमित्यर्थः ।। १०७ ।।
वाइयमुवगीयं नमवि, सुअं दिट्ठमिट्ठमुत्तिकरं । कीरइ सुसाव एहिं, स-परहियं समुचिअं जत्था १०८ ।
व्याख्या - ' वाइयमुवगीय ' मित्यादि । यत्र आयतने वादितं शङ्खपटहभेरीमृदङ्गादीनां वादनं क्रियत इति योगः । न केवलं वादितं नाट्यमपि - लास्यमपि कथम् १ उपगीतं गानसमीपे यत् कीदृशं वादितं नाट्यं च ? यथासम्भवं श्रुतम्-आकर्णितं दृष्टम् - अवलोकितम् इष्टा = अभिमता या मुक्ति: = निर्वृतिस्तां करोतीति इष्टमुक्तिकरम् । कैः क्रियते ? इत्याह- सुश्रावकैः = शोभन श्राद्धैः । तदपि वादितं गीतं नाट्यं यत् समुचितं युक्तं न त्वनुचितं, तस्योपहासास्पदत्वादेवोक्तमनेनैव भगवता
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनवल्लभसूरीणां
सप्रपंच
स्तुतिगर्भ
चरित्रादि ॥
॥ ५४ ॥