________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यथा - " वागविरुद्धा नवि गाइजह" इत्यादि । अत एव स्वपरहितम् - आत्मेतरपथ्यं शुभभाववृद्धिहेतुकत्वादित्यर्थः ॥ १०८ ॥
तथा
रागोरगोवि नासइ, , सोउं सुगुरूवएसमंतपए। भवमणो-सालूरं, नासइ दोसो वि जत्थाही ॥१०९॥
व्याख्या – ' रागो० ' इत्यादि । अत्र आयतने रागःयाद्यभिष्वङ्गः स एव उरगः = सर्पः भीमत्वदशनशीलत्वादिभिर्हेतुभिः रागोरगः, सोऽपि नश्यति दूरतः पलायते, अपि संभावनायां संभाव्यते एतद् वक्ष्यमाणप्रकारेण किमत्रा संभाव्यमित्यर्थः । किं कृत्वा ? श्रुत्वा = आकर्ण्य, कानि ! सुगुरूपदेश एव = सद्धर्माचार्यस्य हितवचनान्येव मन्त्रपदानि यत्र आयतने “ ॐ नमः श्रीघोणसेहरे २ बरे २ तरे २ वः २ वल २ लां २ २ रीं २ रौं २ र २ स२" इत्यादिमत्राक्षराणि सुगुरूपदेशमन्त्रपदानि । तथा यत्र आयतने भव्यानाम् = आसन्नसिद्धिकानां मनः = चित्तं भव्यमनस्तदेव सालूरो- दर्दुरस्तं नाश्नाति = नाति । द्वेषः = परगुणासहनं सोऽपि अहिरिव अहिः = भुजङ्गः । द्वेषस्यापि अहित्वं निरूपयता द्वयोरपि रागद्वेषयोः ' यत्र रागस्तत्र द्वेषो, यत्र द्वेषस्तत्र रागः' इत्यन्योन्यानुगतत्वं दर्शयति, तदुक्तम्
" रागविसयादभिन्नो, दोसो त विसयगोयराणचे [ ने ] । रागो तम्हा दुन्निवि, अनोन्नगया इमे लोए ॥ १ ॥ " अयमपि सुगुरूपदेश मन्त्रपदप्रभावः, पठ्यते च लोकेऽप्ययमर्थः, तथाहि
" सालूरो कसिण अंगमस्स जं दलइ मत्थए पायं । तं मन्ने कस्सवि मंतबाइणो फुरइ मापं ॥ १ ॥ " इति गाथार्थः ॥ १०९ ॥
१०
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir