________________
Shri Mahavir Jain Aradhana Kendra
मणधर
सार्द्ध
शतकम् ।
॥ ५५ ॥
www.kobatirth.org
नत्थुस्तकमोत्थि पहाणं बली पइट्ठा य । जइ जुवइपवेसो वि अ, न विज्जई विज्जइविमुक्का ॥ ११०॥ व्याख्या– 'नो जत्थुस्सुत्तजण कमोत्थि' इत्यादि । नो-नैव यत्र आयतने उत्सूत्रजनक्रमः - सूत्रात्- आगमात् उत्क्रान्तम् उत्सूत्रं तच्च स्थावरप्रायोग्यकूपखननादि चेलाञ्चलवन्दनादिकं तद्भाषणात् ' मञ्चाः क्रोशन्ती ' तिवत्-जना अपि, उत्सूत्राव ते जनाथ उत्सूत्रजनास्तेषां क्रमः = कल्पोऽधिकार इत्यर्थः उत्सूत्रजनक्रमः अस्ति विद्यते । तथास्नानं स्वात्रं बलिः = सुकुमारिकाद्युपहारः प्रतिष्ठा च प्रतिष्ठापनं, 'चः' समुच्चये, यतियुवतिप्रवेशोऽपि च-यतिः - साधुः, युवतिः - अङ्गना तयोः प्रवेशः जिनभवनद्वारकपाटान्तर्भवनं यतियुवतिप्रवेशः, सोऽपि चे 'ति पूर्वापेक्षया समुच्चयार्थः, न विद्यते । कीदृशो यतिः ? ' विजइविमुको ' वेतीति वित्-ज्ञानी विवेकीत्यर्थः, स चासौ यतिश्व = अनगारच विद्-यतिस्तेन विमुक्तः परिहृतो विद्-यतिविमुक्तः ॥ ११० ॥
इति सामान्येन प्रतिषेधमस्यां गाथायां प्रतिपाद्याधुना सर्वकालविषयं नियमविशेषमाह -
जिणजत्ता- पहाणाई, दोसाणं जं खया य कीरंति । दोसोदयाम्मि कह तेसिं संभवो भवहरो हुज्जा ॥ १११ ॥
व्याख्या—' जिणजत्ताण्हाणाई' इत्यादि । जिनानाम् - अर्हतां यात्राः = अष्टाहिकाद्युत्सवाः, तथा स्नानबलिप्रतिष्ठाःपूर्वप्रतिपादिताः, एते यात्रास्त्रानादयो, दोषाणां रागद्वेषमोहमदमात्सर्यादीनां यस्मात्क्षयाय = विध्वंसाय क्रियन्ते विधीयन्ते, ततश्च दोषोदये - रजनीसंभवे कथं केन प्रकारेण ? तेषां दोपक्षयार्थं क्रियमाणानां यात्रास्त्रात्र बलिप्रतिष्ठापनानां संभवः = सद्भावो
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनवल्लभ
सूरीणां
सप्रपंच
स्तुतिगर्भचरित्रादि ॥
।। ५५ ।।