Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 583
________________ 566 कुटादेरिति ङित्त्वात् सिचि परस्मायिति वृद्ध्यभावे अनुवीत् । चुरादेरदन्तानां चुरादिगणपठितादन्तधातूनामित्यर्थः । गुणो वृद्धिश्च न भवेत् । सुखण् (सुख) तत्क्रियायाम् । १८५४ रचण् (रच्) प्रतियत्ने । रचयति । अत्रात इत्यल्लुकः स्वरादेशत्वेन स्थानिवत्त्वाद् गुणवृद्ध्यभावः । अररचत्। असुसुखत्। अत्र समानलोपित्वादसमानलोप इति पूर्वस्य सन्वद्भावो लघोर्दीर्घ इति दीर्घश्च न भवति । १८५५ सूचण् (सूच्) पैशून्ये अत्रोपान्त्यह्रस्वाभावः । ॥ इति वृत्गणफलनिरूपणम् ॥ ॥ सकर्मकवाकर्मकत्वानिरूपणम् ।। फलव्यापारयोरेकनिष्ठतायाकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १ ॥ फलस्य गतिनिवृत्त्यादिरूपस्य व्यापारस्य गतिनिवृत्त्यनुकूल - व्यापारादिरूपस्य च एकनिष्ठतायामेकाधिकरणवृत्तितायां सत्यां धातुरकर्मको भवति । फलसमानाधिकरणव्यापारबोधकत्वं समानाधिकरणफलावच्छिन्नव्यापारबोधकत्वं वाकर्मकत्वमिति फलितोऽर्थः । यथा पष्ठां (स्था) गतिनिवृत्तौ, अत्र फलं गतिनिवृत्तिः व्यापारस्तदनुकूल इति फलं व्यापारश्चोभयं देवदेत्तस्तिष्ठति इत्यत्र देवदत्तरूपैकाधिकरणे वर्त्तते । देवदत्तस्तिष्ठतीति कोऽर्थः ? गतिनिवृत्त्यनुकूलव्यापारवान् देवदत्तः । एवं तयोः फलव्यापारयोः धर्मिभेदेऽधिकरणभेदे भिन्नभिन्नाधिकरणवृत्तितायां सत्यां धातुः सकर्मको भवति । फलव्यधिकरणव्यापारबोधकत्वं व्यधिकरणफलावच्छिन्नव्यापार बोधकत्वं वा सकर्मकत्वमिति फलितोऽर्थः । यथा ८९२ डुपचष् (पच्) पाके। देवदत्तस्तूण्डुलान् पचति । कोऽर्थः ? तण्डुलनिष्ठविक्लृत्यनुकूलव्यापारवान् देवदत्तः । अत्र फलं विक्लृतिः, सा तण्डुलेषु वर्त्तते व्यापारस्तदनुकूलः स देवदत्ते वर्त्तते इति फलव्यापारयोर्भिन्नाधिकरता । अर्थान्तरे वर्त्तमानस्याकर्मकस्यापि सकर्मकत्वं भवति कालाध्वभावदेशापेक्षया च सर्व एव धातवः सकर्मकाः । मासमास्ते । क्रोशो गुडधानाभिर्भूयते । गोदो - स्वपिति । कुरून् शेते । अर्थान्तरवृत्त्यादिना च सकर्मकस्यापि अकर्मकत्वं भवति । यदाह धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणोऽकर्मिका क्रिया ॥ २ ॥ Jain Education International धातुरत्नाकर प्रथम भाग अर्थान्तरे वर्त्तमानाद्धातोः सकर्मकस्यापि अकर्मिका क्रिया भवति । यथा भारं वहति उद्यच्छतीत्यर्थः नदी वहती स्रवतीत्यर्थः । कर्मणो धात्वर्थान्तः प्रवेशादकर्मकत्वम् । यथा ४६५ जीव (जीव्) प्राणधारणे जीवति । ७२८ हदिं (हद्) पुरीषोत्सर्गे हदते । अत्र प्राणपुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते । कर्मणः प्रसिद्धत्वात् । यथा ५२७ वृषू (वृष्) सेचने। देवो वर्षति । न पुनरत्र रक्तं वर्षति । पार्थः शरान् वर्षति । कर्मणोऽविवक्षितत्वात्। यथा नेह पच्यते नेह भुज्यते । कर्माविवक्षा चौदासीन्थनिवृत्तिमात्रपरतया प्रयोगात् । यथा किं करोतीति प्रश्ने पचति पठतीत्यादि प्रत्यवस्थानं नतु भवति विद्यते वेत्यादि तेषामपर्यनुयोज्यत्वात् । यत्तु किं करोतीति प्रश्ने भवतीत्युत्तरं तत्क्रियाख्यकर्मनिबन्धनं नतु बाह्यकर्मापेक्षं भवनं करोतीत्यर्थावगमात्। क्रिया हि सर्वधातूनामान्तरं कर्म । अतएव क्रियाविशेषणानां कर्मत्वं स्मरन्ति । नन्वेवं क्रियाविशेषणादिति योगो व्यर्थः कर्मणीत्येव द्वितीयासिद्धेः । नैवम् । आन्तरकर्मणा सकर्मणोऽपि अकर्मककार्यप्रतिपत्त्यर्थत्वाद्योगस्य । तेन सुखं सुप्त इत्यादौ कर्त्तरि क्तः सिद्धः । सुखं स्थातेत्यादौ कृन्निमित्ता षष्ठी न भवतीति । अत एव सकर्मकाकर्मकव्यवहारो द्रव्यकर्मनिमित्त इत्युच्यते । यदाह ॥ सकर्मकाकर्मकत्वं द्रव्यकर्मनिबन्धनम् ।। ॥अथ द्विकर्मकगणनानिरूपणतम् ।। कृष ण्यन्तादुहिब्रूपृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १ ॥ इमे सर्वे धातवो द्विकर्मका विज्ञेयाः । ८८४ णींग् (नी) प्रापणे। गाममजां नयति। ८८५ हंग् (ह) वरणे । निवासं हरति घासं । ९९६ वहीं (वहू) प्रापणे । ग्रामं भारं वहति । ५०६ कृषं (कृष्) विलेखने। १३१९ कृषींत् (कृष्) विलेखने। ग्रामं बलिवर्द कर्षाति । ण्यन्ता इति । ३ घ्रां (घ्रा ) गन्धोपादाने। जिनदासं पुष्पाणि घ्रापयति । दुहिब्रूपृच्छिभिक्षिचिरुचिशासूधातूनामर्था इव अर्था येषां ते तथा । दुहिप्रभृतीनां षण्णां धातूनां येऽर्थाः प्रतिपादिताः तादृशा अर्था येषां धातूनां भवन्ति तेऽपि धतवो द्विकर्मका विज्ञेयाः । ११२७ दुहींक् (दुह्) क्षरणे । गां दोग्धि पयः। ११२५ ब्रंग्क् (ब्रू) व्यक्तायां वाचि । भव्यान् धर्मं ब्रूते । १३४७ प्रच्छंत् (प्रच्छ्) ज्ञीप्सायाम् । जनं मार्गं पृच्छति । ८८० भिक्षि (भिक्षु) याञ्चायाम् । भिक्षते गां राजानम् । १२९० चिंग्ट् (चि) चयने । वृक्षं पुष्पाणि अवचिनोति । १४७३ रुधूंपी (रुध्) T For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646