________________
566
कुटादेरिति ङित्त्वात् सिचि परस्मायिति वृद्ध्यभावे अनुवीत् । चुरादेरदन्तानां चुरादिगणपठितादन्तधातूनामित्यर्थः । गुणो वृद्धिश्च न भवेत् । सुखण् (सुख) तत्क्रियायाम् । १८५४ रचण् (रच्) प्रतियत्ने । रचयति । अत्रात इत्यल्लुकः स्वरादेशत्वेन स्थानिवत्त्वाद् गुणवृद्ध्यभावः । अररचत्। असुसुखत्। अत्र समानलोपित्वादसमानलोप इति पूर्वस्य सन्वद्भावो लघोर्दीर्घ इति दीर्घश्च न भवति । १८५५ सूचण् (सूच्) पैशून्ये अत्रोपान्त्यह्रस्वाभावः ।
॥ इति वृत्गणफलनिरूपणम् ॥ ॥ सकर्मकवाकर्मकत्वानिरूपणम् ।। फलव्यापारयोरेकनिष्ठतायाकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १ ॥ फलस्य गतिनिवृत्त्यादिरूपस्य व्यापारस्य गतिनिवृत्त्यनुकूल - व्यापारादिरूपस्य च एकनिष्ठतायामेकाधिकरणवृत्तितायां सत्यां धातुरकर्मको भवति । फलसमानाधिकरणव्यापारबोधकत्वं समानाधिकरणफलावच्छिन्नव्यापारबोधकत्वं वाकर्मकत्वमिति फलितोऽर्थः । यथा पष्ठां (स्था) गतिनिवृत्तौ, अत्र फलं गतिनिवृत्तिः व्यापारस्तदनुकूल इति फलं व्यापारश्चोभयं देवदेत्तस्तिष्ठति इत्यत्र देवदत्तरूपैकाधिकरणे वर्त्तते । देवदत्तस्तिष्ठतीति कोऽर्थः ? गतिनिवृत्त्यनुकूलव्यापारवान् देवदत्तः । एवं तयोः फलव्यापारयोः धर्मिभेदेऽधिकरणभेदे भिन्नभिन्नाधिकरणवृत्तितायां सत्यां धातुः सकर्मको भवति । फलव्यधिकरणव्यापारबोधकत्वं व्यधिकरणफलावच्छिन्नव्यापार बोधकत्वं वा सकर्मकत्वमिति फलितोऽर्थः । यथा ८९२ डुपचष् (पच्) पाके। देवदत्तस्तूण्डुलान् पचति । कोऽर्थः ? तण्डुलनिष्ठविक्लृत्यनुकूलव्यापारवान् देवदत्तः । अत्र फलं विक्लृतिः, सा तण्डुलेषु वर्त्तते व्यापारस्तदनुकूलः स देवदत्ते वर्त्तते इति फलव्यापारयोर्भिन्नाधिकरता ।
अर्थान्तरे वर्त्तमानस्याकर्मकस्यापि सकर्मकत्वं भवति कालाध्वभावदेशापेक्षया च सर्व एव धातवः सकर्मकाः । मासमास्ते । क्रोशो गुडधानाभिर्भूयते । गोदो - स्वपिति । कुरून् शेते । अर्थान्तरवृत्त्यादिना च सकर्मकस्यापि अकर्मकत्वं भवति । यदाह
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणोऽकर्मिका क्रिया ॥ २ ॥
Jain Education International
धातुरत्नाकर प्रथम भाग अर्थान्तरे वर्त्तमानाद्धातोः सकर्मकस्यापि अकर्मिका क्रिया भवति । यथा भारं वहति उद्यच्छतीत्यर्थः नदी वहती स्रवतीत्यर्थः । कर्मणो धात्वर्थान्तः प्रवेशादकर्मकत्वम् । यथा ४६५ जीव (जीव्) प्राणधारणे जीवति । ७२८ हदिं (हद्) पुरीषोत्सर्गे हदते । अत्र प्राणपुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते । कर्मणः प्रसिद्धत्वात् । यथा ५२७ वृषू (वृष्) सेचने। देवो वर्षति । न पुनरत्र रक्तं वर्षति । पार्थः शरान् वर्षति । कर्मणोऽविवक्षितत्वात्। यथा नेह पच्यते नेह भुज्यते । कर्माविवक्षा चौदासीन्थनिवृत्तिमात्रपरतया प्रयोगात् । यथा किं करोतीति प्रश्ने पचति पठतीत्यादि प्रत्यवस्थानं नतु भवति विद्यते वेत्यादि तेषामपर्यनुयोज्यत्वात् । यत्तु किं करोतीति प्रश्ने भवतीत्युत्तरं तत्क्रियाख्यकर्मनिबन्धनं नतु बाह्यकर्मापेक्षं भवनं करोतीत्यर्थावगमात्। क्रिया हि सर्वधातूनामान्तरं कर्म । अतएव क्रियाविशेषणानां कर्मत्वं स्मरन्ति । नन्वेवं क्रियाविशेषणादिति योगो व्यर्थः कर्मणीत्येव द्वितीयासिद्धेः । नैवम् । आन्तरकर्मणा सकर्मणोऽपि अकर्मककार्यप्रतिपत्त्यर्थत्वाद्योगस्य । तेन सुखं सुप्त इत्यादौ कर्त्तरि क्तः सिद्धः । सुखं स्थातेत्यादौ कृन्निमित्ता षष्ठी न भवतीति । अत एव सकर्मकाकर्मकव्यवहारो द्रव्यकर्मनिमित्त इत्युच्यते । यदाह
॥ सकर्मकाकर्मकत्वं द्रव्यकर्मनिबन्धनम् ।। ॥अथ द्विकर्मकगणनानिरूपणतम् ।। कृष ण्यन्तादुहिब्रूपृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १ ॥ इमे सर्वे धातवो द्विकर्मका विज्ञेयाः । ८८४ णींग् (नी) प्रापणे। गाममजां नयति। ८८५ हंग् (ह) वरणे । निवासं हरति घासं । ९९६ वहीं (वहू) प्रापणे । ग्रामं भारं वहति । ५०६ कृषं (कृष्) विलेखने। १३१९ कृषींत् (कृष्) विलेखने। ग्रामं बलिवर्द कर्षाति । ण्यन्ता इति । ३ घ्रां (घ्रा ) गन्धोपादाने। जिनदासं पुष्पाणि घ्रापयति । दुहिब्रूपृच्छिभिक्षिचिरुचिशासूधातूनामर्था इव अर्था येषां ते तथा । दुहिप्रभृतीनां षण्णां धातूनां येऽर्थाः प्रतिपादिताः तादृशा अर्था येषां धातूनां भवन्ति तेऽपि धतवो द्विकर्मका विज्ञेयाः । ११२७ दुहींक् (दुह्) क्षरणे । गां दोग्धि पयः। ११२५ ब्रंग्क् (ब्रू) व्यक्तायां वाचि । भव्यान् धर्मं ब्रूते । १३४७ प्रच्छंत् (प्रच्छ्) ज्ञीप्सायाम् । जनं मार्गं पृच्छति । ८८० भिक्षि (भिक्षु) याञ्चायाम् । भिक्षते गां राजानम् । १२९० चिंग्ट् (चि) चयने । वृक्षं पुष्पाणि अवचिनोति । १४७३ रुधूंपी (रुध्)
T
For Private & Personal Use Only
www.jainelibrary.org