________________
सौत्रादिगण
आवरणे । शंठ गृहमवरुणद्धि १०९५ शास्क । (शास्) अनुशिष्टा । मनुष्यं धर्मं शास्ति । ८९२ डुपचष् (पच्) पाके तण्डुलानोदनं पचति । याचिरत्रानुनयार्थस्तेन भिक्ष्यर्थाद्भेदः । ८९१ डुयाचग् (याच्) याञ्चायाम् । शठं धर्मं याचतेऽनुनयतीत्यर्थः । १८६९ दण्डण् ( दण्ड्) दण्डनिपाते। देवदत्तं शतं दण्डयति । ८८८ डुकृंग् (कृ) करणे । मृदं घटं करोति । १५१७ ग्रहीश् (ग्रह) उपादाने । द्रव्यं धान्यं प्रतिगृहात १५४७ मन्थश् (मन्थ्) विलोडने । समुद्रममृतमम्नात् । ८ जिं (जि) अभिभवे । देवदत्तं शतं जयति । प्रमुखग्रहणात् १५६३ मुषशू (मुष्) स्तेये। गोविन्दं शतं मुष्णाति । एतद्व्याख्या तु मतान्तरीयोक्तकारिकानुसारेण कृता । हेमचन्द्रसूरीशानैस्तु । तच्च (द्विविधं कर्म तु) द्विकर्मकेषु दुहिभिक्षिरुधिप्रच्छिचिग्ग्शास्वब्रूर्थेषु याचि जयप्रभृतिषु नीकृषवहेषु च भवति । अत्रोदाहरणानि तु निरुक्तान्येव । अत्रोक्तातिरिक्तधातूणामुपरि गणना कृता । सा अत्रैव समवसरति । इदं तस्या उपलक्षणं मतभेदो वेति स्वयमूह्यम् ।
॥ इति द्विकर्मकगणनानिरूपणम् ॥ ॥ अथ गौणमुख्यकर्मनिरूपणम् || न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नीयते गौर्द्विजैर्ग्राम भारो ग्राममथोह्यते ॥ १ ॥ गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः ।
पयो दुह्यतेऽनेन शिष्योऽर्थं गुरुणोच्यते ॥ २ ॥ कर्म द्विविधं मुख्यं गौणञ्च । तत्र यदर्थं क्रिया आरभ्यते तत्प्रधानम् । तत्सिद्ध्यै यत्क्रियया व्याप्यते गवादि तदप्रधानम् । अन्यत्सर्वं स्फुटम् । किञ्च गत्यर्थानामकर्मकाणां तु णिगन्तानां प्रधाने एष कर्मणि गम्यते मैत्रो ग्रामम् । आस्यते मासं मैत्रः । बोधाहारार्थशब्दकर्मकाणां तु णिगन्तानामुभयत्र बोध्यते शिष्यो धर्मम् । बोध्यते शिष्यं धर्मो वा भोज्यतेऽतिथिमोदनः । भोज्यतेऽतिथिरोदनम्। पाठ्यते शिष्यो ग्रन्थतम् । पाठ्यते शिष्यं ग्रन्थो वा ।
॥ इति गौणुख्यकर्मनिरूपणम् ।।
Jain Education International
॥ अथ धातूपसर्गजन्यभेदप्रकाशनिरूपणम् ।। बीकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १॥ बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥ २ ॥
567
व्याख्या अथ किं धातुः पूर्वमुपसर्गेण युज्यते उत साधनेनेति ! साधनं हि क्रियां निवर्त्तयति (साध्यत्ववैशिष्ट्येन बोधयतीति तामुपसर्गो विशिनष्टि (स्वद्योत्यविशेषणवैशिष्ट्येन बोधयतीत्यर्थः ) अतः पूर्वं साधनेन साधनं कारकम् तदभिधायि कार्येण युज्यत इति तदयुक्तम् पूर्वं हि धातोः साधनेन सम्बन्धे आस्यते गुरुणा इत्यकर्मकः उपास्यते गुरुरिति सकर्मकः केन
स्यात् ।
नतु
यस्माद्विशिष्टैव क्रिया साधनेन साध्यते साधनाल्लब्धस्वरूपान्यतो विशेषं लभते तस्मात् पूर्वमुपसर्गेण युज्यते इति युक्तम् । न च प्रत्यय सम्बन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तेर्न धातोः पूर्वमुपसर्गेण सम्बन्धो युज्यते इति वाच्यम् ? यतः -
सम्बद्धाः
बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ।। १ ।। बीज कालेषु - बीजोत्पत्तिसमयेषु सम्पृक्ताः ( बीजैरिति शेषः) लाक्षारसादयः - जतुरसप्रभृतयः फलानां वर्णादिपरिणामेन रूपरसादिपरिणमनद्वारा यथा उपकुर्वते । (बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः ।। अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥ | १ || ) तथा धातूपसर्गयोः बुद्धिस्थाद् (बुद्धिविषयीकृतात्) अभिसम्बन्धात् भेदः (उपसर्गार्थकृतो विशेषः) अभ्यन्तरीकृतः (बुद्धिस्थीकृत: धातु शेषः पदकाले उपसर्गसंज्ञकशब्दप्रयोगकाले प्रकाशते श्रोतुरिति शेषः । इति अङ्कुरोत्पत्तिसमये लाक्षारसादिसेकेन रूपरसादिवैलक्षण्यं भवति इति लोकप्रसिद्धिः तत्र यथा लाक्षारसादीनां पूर्वकालिकसम्बन्धेन जायमाना विलक्षणता फलकाले प्रकाशते तथा पूर्वकालिकोपसर्गसम्बन्धेन जायमानः उपसर्गार्थकृतौ विशेषः उपसर्गप्रयोगकाले प्रकाशते एवं च पूर्वमुपसर्गयोगो नाम तदर्थसम्बन्धः तत उपसर्गशब्दात् पूर्वं
फलानां
For Private & Personal Use Only
www.jainelibrary.org