________________
568
धातुरत्नाकर प्रथम भाग
साधनकार्ययोगः तत उपसर्गसंज्ञकशब्दप्रयोग इति तात्पर्यम् एतद्व्यतिरिक्ता नकारादयः सर्वे गोपदेशाः यथा ६५ णख
इत्यलम् ।
(नख्) गतौ। गोपदेशफलन्तु प्रणखतीत्यादौ णत्वम् । ननु ६४ नख (नख्) गतौ । इत्यस्य अणोपदेशत्वात् कथमत्र न वर्जनमिति चेदुच्यते नख णख इति पाठसामर्थ्यादेव अणोपदेशत्वमेवान्यत्रापि ।
॥ अथ षोपदेशनिरूपणतम् ।। स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वञ्जिस्वपयश्च । षोपदेशा: सृपि सृजि स्त्या स्तृ स्तृ सृ सेकृवर्जम् ॥ १ ॥ स्वरा अवर्णादयो दन्त्या लवर्णतवर्गलसास्ते परा यस्मात्तादृशो यः सकार: स आदौ येषां स्वरदन्त्यपरसकारादयः स्वरपरसादयः दन्त्यपरसादयश्च धातवः पोपदेशा ज्ञेयाः उत्तरदलदर्शितान् विहाय । यथा ९९० हि (सह ) मर्षणे । ५ ष्ठां (स्था) गतिनिवृत्तौ । उक्तलक्षणेनाग्रहादाह-स्मीत्यादिस्मिप्रभृतयश्च षोपदेशा विज्ञेयाः । ५६७ ष्मिङ् (स्मि) ईषद्धसने । ९४६ ञिष्विदाङ् (स्विद् ) मांचने च । ११७८ ष्विदांच् (स्विद्) गात्रप्रक्षरणे । ७२९ ष्वदि (स्वद्) आस्वादने । १७४२ ष्वदण् (स्वद्) आस्वादने । ष्वचिंत् (स्व) सङ्गे । १०८८ ञिष्वपंक् (स्वप्) शये । सृपिप्रभृतीन् विहाय । ते चेमे । ३४१ सृप्लूं (सप्) गतौ। १२५५ सृजिंच् (सृज्) विसर्गे । १३४९ सृजंत् (सृज्) विसर्गे । ४० स्त्यै (स्त्यै) संघाते । १५२१ स्तृग्श् (स्तु) आच्छादने । १२९२ स्तॄंग्ट् (स्तृ) आच्छादने। २५ सृ (सृ) गतौ। ६३५ सेकङ् (सेक्) गतौ। षोपदेशफलं तु असीषहत् इत्यादौ षत्वकरणम् । स्मिप्रभृतिभिः साहचर्यादेकस्वराणामेव षोपदेशस्मृतिः । अत एव सूत्रसत्रसंग्रामसामसमाजस्थूलस्तनस्तेन स्तोमसुखानामषोपदेशत्वात् सोसुत्र्यते सिसत्रयिषते इत्यादौ षत्वं न भवति ।
।।इति षोपदेशप्रकरणम् ॥
॥ अथ णोपदेशनिरूपणम् ॥
सर्वे न नादयो णोपदेशा नृति नन्दि नर्दि नशि नाटि नक्चि नाधृ नाथू नृवर्जम्। येषां धातूनामादौ नकारो भवेत्ते णोपदेशा विज्ञेयाः नृतिप्रभृतीन् विहाय ते चेमे । ५२ नृतैच् (नृत्) नर्तने। ३१२ टुनदु (नन्द) समृद्धौ ३०२ नर्द (नर्द) शब्दे । १२०२ नशौच् (नश्) अदर्शने। नाटीति १५९३ नटण् (नट्) अवस्यन्दने इत्यस्यैवात्र वर्जनं नतु १८७ णट् लट् नृत्तौ । १०३३ गट (नट्) नतौ एतयोः । १५७३ नक्कण् (नक्क्) नाशने। ४४७ नाधृङ् (नाघ्) नाथवन् । ७१६ नाशृङ् ( नाथ् ) उपतापैश्वर्याशीःषु च। १०१६ नृ नये । १५३७ नृश् (नृ) नये ।
Jain Education International
॥ इति णोपदेशप्रकरणम् ॥ ॥ अथ धात्वर्थविशेषनिरूपणम् ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥ १॥ धात्वर्थं बाघ कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशिष्ट्न्योऽनर्थकोऽन्यः प्रयुज्यते ॥ २ ॥ उपसर्गेण ॥
प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः । उप आडिति विंशतिरेष सखे! उपसर्गगणः कथितः कविभिः ॥ १॥
इत्याद्यन्यतमेन धात्वर्थो धातुपाठे य उक्तोऽर्थः स बलात्प्रतीतिसामर्थ्यादन्यत्रान्यस्मिन्नर्थे नीयते स्थाप्यते पर्यवसितो भवतीत्यर्थः । अत्र ये उपसर्गस्य द्योतकत्वमामनन्ति तन्मते तु अन्योऽप्यर्थस्तस्य धातोरेव ये तु वाचकत्वमाश्रयन्ति तन्मते धातुसम्बन्धात्तमन्यमर्थमुपसर्ग एवाभिधत्ते तदेवाह - ८८५ हंग्
(ह) वरणे । अस्य उदाहरणार्थत्वेऽपि विहार:
क्रीडासमीचीनगमनं वा । आहारो भोजनम्। संहारो विनाशः । प्रतिहार: प्रहारस्ताडनतम्। द्वाःस्थकर्म् इत्यादौ उक्तादिक्तविविधार्थावगतेः । कश्चिदुपसर्गो धात्वर्थं बाधते । यथा - ३२० षिध् (सिध्) गत्याम् । प्रतिषेधति । अत्र गत्यर्थं बाधित्वा निषेधार्थमभिदधति । कश्चित्तं मौलधात्वर्थमनुवर्त्तते, यथा अधीयते। अत्र ११०४ इङ्क् (इ) अध्ययने । अयमधिनाऽवश्यंभावी योगो न चार्थविशेषः । अन्य उपसर्गस्तमेव मूलधात्वर्थं विशिनष्टि विशिष्टतामापादयति । यथा ९९२ डुपचष् (पच्) पाके प्रपचति प्रकृष्टं प्रकर्षे वा पचतीत्यर्थः। अन्य उपसर्गोऽनर्थक एव प्रयुज्यते । ३९६ गम्लं (गम्) गतौ । अधिगच्छति । अत्र न धात्वर्थबाधो न वा धात्वर्थविशेषता न वा गम्-धातुनाऽवश्यंभावी योग इति । ॥ इति धात्वर्थविशेषनिरूपणम् ।।
For Private & Personal Use Only
www.jainelibrary.org