Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 585
________________ 568 धातुरत्नाकर प्रथम भाग साधनकार्ययोगः तत उपसर्गसंज्ञकशब्दप्रयोग इति तात्पर्यम् एतद्व्यतिरिक्ता नकारादयः सर्वे गोपदेशाः यथा ६५ णख इत्यलम् । (नख्) गतौ। गोपदेशफलन्तु प्रणखतीत्यादौ णत्वम् । ननु ६४ नख (नख्) गतौ । इत्यस्य अणोपदेशत्वात् कथमत्र न वर्जनमिति चेदुच्यते नख णख इति पाठसामर्थ्यादेव अणोपदेशत्वमेवान्यत्रापि । ॥ अथ षोपदेशनिरूपणतम् ।। स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वञ्जिस्वपयश्च । षोपदेशा: सृपि सृजि स्त्या स्तृ स्तृ सृ सेकृवर्जम् ॥ १ ॥ स्वरा अवर्णादयो दन्त्या लवर्णतवर्गलसास्ते परा यस्मात्तादृशो यः सकार: स आदौ येषां स्वरदन्त्यपरसकारादयः स्वरपरसादयः दन्त्यपरसादयश्च धातवः पोपदेशा ज्ञेयाः उत्तरदलदर्शितान् विहाय । यथा ९९० हि (सह ) मर्षणे । ५ ष्ठां (स्था) गतिनिवृत्तौ । उक्तलक्षणेनाग्रहादाह-स्मीत्यादिस्मिप्रभृतयश्च षोपदेशा विज्ञेयाः । ५६७ ष्मिङ् (स्मि) ईषद्धसने । ९४६ ञिष्विदाङ् (स्विद् ) मांचने च । ११७८ ष्विदांच् (स्विद्) गात्रप्रक्षरणे । ७२९ ष्वदि (स्वद्) आस्वादने । १७४२ ष्वदण् (स्वद्) आस्वादने । ष्वचिंत् (स्व) सङ्गे । १०८८ ञिष्वपंक् (स्वप्) शये । सृपिप्रभृतीन् विहाय । ते चेमे । ३४१ सृप्लूं (सप्) गतौ। १२५५ सृजिंच् (सृज्) विसर्गे । १३४९ सृजंत् (सृज्) विसर्गे । ४० स्त्यै (स्त्यै) संघाते । १५२१ स्तृग्श् (स्तु) आच्छादने । १२९२ स्तॄंग्ट् (स्तृ) आच्छादने। २५ सृ (सृ) गतौ। ६३५ सेकङ् (सेक्) गतौ। षोपदेशफलं तु असीषहत् इत्यादौ षत्वकरणम् । स्मिप्रभृतिभिः साहचर्यादेकस्वराणामेव षोपदेशस्मृतिः । अत एव सूत्रसत्रसंग्रामसामसमाजस्थूलस्तनस्तेन स्तोमसुखानामषोपदेशत्वात् सोसुत्र्यते सिसत्रयिषते इत्यादौ षत्वं न भवति । ।।इति षोपदेशप्रकरणम् ॥ ॥ अथ णोपदेशनिरूपणम् ॥ सर्वे न नादयो णोपदेशा नृति नन्दि नर्दि नशि नाटि नक्चि नाधृ नाथू नृवर्जम्। येषां धातूनामादौ नकारो भवेत्ते णोपदेशा विज्ञेयाः नृतिप्रभृतीन् विहाय ते चेमे । ५२ नृतैच् (नृत्) नर्तने। ३१२ टुनदु (नन्द) समृद्धौ ३०२ नर्द (नर्द) शब्दे । १२०२ नशौच् (नश्) अदर्शने। नाटीति १५९३ नटण् (नट्) अवस्यन्दने इत्यस्यैवात्र वर्जनं नतु १८७ णट् लट् नृत्तौ । १०३३ गट (नट्) नतौ एतयोः । १५७३ नक्कण् (नक्क्) नाशने। ४४७ नाधृङ् (नाघ्) नाथवन् । ७१६ नाशृङ् ( नाथ् ) उपतापैश्वर्याशीःषु च। १०१६ नृ नये । १५३७ नृश् (नृ) नये । Jain Education International ॥ इति णोपदेशप्रकरणम् ॥ ॥ अथ धात्वर्थविशेषनिरूपणम् ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥ १॥ धात्वर्थं बाघ कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशिष्ट्न्योऽनर्थकोऽन्यः प्रयुज्यते ॥ २ ॥ उपसर्गेण ॥ प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः । उप आडिति विंशतिरेष सखे! उपसर्गगणः कथितः कविभिः ॥ १॥ इत्याद्यन्यतमेन धात्वर्थो धातुपाठे य उक्तोऽर्थः स बलात्प्रतीतिसामर्थ्यादन्यत्रान्यस्मिन्नर्थे नीयते स्थाप्यते पर्यवसितो भवतीत्यर्थः । अत्र ये उपसर्गस्य द्योतकत्वमामनन्ति तन्मते तु अन्योऽप्यर्थस्तस्य धातोरेव ये तु वाचकत्वमाश्रयन्ति तन्मते धातुसम्बन्धात्तमन्यमर्थमुपसर्ग एवाभिधत्ते तदेवाह - ८८५ हंग् (ह) वरणे । अस्य उदाहरणार्थत्वेऽपि विहार: क्रीडासमीचीनगमनं वा । आहारो भोजनम्। संहारो विनाशः । प्रतिहार: प्रहारस्ताडनतम्। द्वाःस्थकर्म् इत्यादौ उक्तादिक्तविविधार्थावगतेः । कश्चिदुपसर्गो धात्वर्थं बाधते । यथा - ३२० षिध् (सिध्) गत्याम् । प्रतिषेधति । अत्र गत्यर्थं बाधित्वा निषेधार्थमभिदधति । कश्चित्तं मौलधात्वर्थमनुवर्त्तते, यथा अधीयते। अत्र ११०४ इङ्क् (इ) अध्ययने । अयमधिनाऽवश्यंभावी योगो न चार्थविशेषः । अन्य उपसर्गस्तमेव मूलधात्वर्थं विशिनष्टि विशिष्टतामापादयति । यथा ९९२ डुपचष् (पच्) पाके प्रपचति प्रकृष्टं प्रकर्षे वा पचतीत्यर्थः। अन्य उपसर्गोऽनर्थक एव प्रयुज्यते । ३९६ गम्लं (गम्) गतौ । अधिगच्छति । अत्र न धात्वर्थबाधो न वा धात्वर्थविशेषता न वा गम्-धातुनाऽवश्यंभावी योग इति । ॥ इति धात्वर्थविशेषनिरूपणम् ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646