Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 584
________________ सौत्रादिगण आवरणे । शंठ गृहमवरुणद्धि १०९५ शास्क । (शास्) अनुशिष्टा । मनुष्यं धर्मं शास्ति । ८९२ डुपचष् (पच्) पाके तण्डुलानोदनं पचति । याचिरत्रानुनयार्थस्तेन भिक्ष्यर्थाद्भेदः । ८९१ डुयाचग् (याच्) याञ्चायाम् । शठं धर्मं याचतेऽनुनयतीत्यर्थः । १८६९ दण्डण् ( दण्ड्) दण्डनिपाते। देवदत्तं शतं दण्डयति । ८८८ डुकृंग् (कृ) करणे । मृदं घटं करोति । १५१७ ग्रहीश् (ग्रह) उपादाने । द्रव्यं धान्यं प्रतिगृहात १५४७ मन्थश् (मन्थ्) विलोडने । समुद्रममृतमम्नात् । ८ जिं (जि) अभिभवे । देवदत्तं शतं जयति । प्रमुखग्रहणात् १५६३ मुषशू (मुष्) स्तेये। गोविन्दं शतं मुष्णाति । एतद्व्याख्या तु मतान्तरीयोक्तकारिकानुसारेण कृता । हेमचन्द्रसूरीशानैस्तु । तच्च (द्विविधं कर्म तु) द्विकर्मकेषु दुहिभिक्षिरुधिप्रच्छिचिग्ग्शास्वब्रूर्थेषु याचि जयप्रभृतिषु नीकृषवहेषु च भवति । अत्रोदाहरणानि तु निरुक्तान्येव । अत्रोक्तातिरिक्तधातूणामुपरि गणना कृता । सा अत्रैव समवसरति । इदं तस्या उपलक्षणं मतभेदो वेति स्वयमूह्यम् । ॥ इति द्विकर्मकगणनानिरूपणम् ॥ ॥ अथ गौणमुख्यकर्मनिरूपणम् || न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नीयते गौर्द्विजैर्ग्राम भारो ग्राममथोह्यते ॥ १ ॥ गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः । पयो दुह्यतेऽनेन शिष्योऽर्थं गुरुणोच्यते ॥ २ ॥ कर्म द्विविधं मुख्यं गौणञ्च । तत्र यदर्थं क्रिया आरभ्यते तत्प्रधानम् । तत्सिद्ध्यै यत्क्रियया व्याप्यते गवादि तदप्रधानम् । अन्यत्सर्वं स्फुटम् । किञ्च गत्यर्थानामकर्मकाणां तु णिगन्तानां प्रधाने एष कर्मणि गम्यते मैत्रो ग्रामम् । आस्यते मासं मैत्रः । बोधाहारार्थशब्दकर्मकाणां तु णिगन्तानामुभयत्र बोध्यते शिष्यो धर्मम् । बोध्यते शिष्यं धर्मो वा भोज्यतेऽतिथिमोदनः । भोज्यतेऽतिथिरोदनम्। पाठ्यते शिष्यो ग्रन्थतम् । पाठ्यते शिष्यं ग्रन्थो वा । ॥ इति गौणुख्यकर्मनिरूपणम् ।। Jain Education International ॥ अथ धातूपसर्गजन्यभेदप्रकाशनिरूपणम् ।। बीकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १॥ बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥ २ ॥ 567 व्याख्या अथ किं धातुः पूर्वमुपसर्गेण युज्यते उत साधनेनेति ! साधनं हि क्रियां निवर्त्तयति (साध्यत्ववैशिष्ट्येन बोधयतीति तामुपसर्गो विशिनष्टि (स्वद्योत्यविशेषणवैशिष्ट्येन बोधयतीत्यर्थः ) अतः पूर्वं साधनेन साधनं कारकम् तदभिधायि कार्येण युज्यत इति तदयुक्तम् पूर्वं हि धातोः साधनेन सम्बन्धे आस्यते गुरुणा इत्यकर्मकः उपास्यते गुरुरिति सकर्मकः केन स्यात् । नतु यस्माद्विशिष्टैव क्रिया साधनेन साध्यते साधनाल्लब्धस्वरूपान्यतो विशेषं लभते तस्मात् पूर्वमुपसर्गेण युज्यते इति युक्तम् । न च प्रत्यय सम्बन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तेर्न धातोः पूर्वमुपसर्गेण सम्बन्धो युज्यते इति वाच्यम् ? यतः - सम्बद्धाः बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ।। १ ।। बीज कालेषु - बीजोत्पत्तिसमयेषु सम्पृक्ताः ( बीजैरिति शेषः) लाक्षारसादयः - जतुरसप्रभृतयः फलानां वर्णादिपरिणामेन रूपरसादिपरिणमनद्वारा यथा उपकुर्वते । (बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः ।। अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥ | १ || ) तथा धातूपसर्गयोः बुद्धिस्थाद् (बुद्धिविषयीकृतात्) अभिसम्बन्धात् भेदः (उपसर्गार्थकृतो विशेषः) अभ्यन्तरीकृतः (बुद्धिस्थीकृत: धातु शेषः पदकाले उपसर्गसंज्ञकशब्दप्रयोगकाले प्रकाशते श्रोतुरिति शेषः । इति अङ्कुरोत्पत्तिसमये लाक्षारसादिसेकेन रूपरसादिवैलक्षण्यं भवति इति लोकप्रसिद्धिः तत्र यथा लाक्षारसादीनां पूर्वकालिकसम्बन्धेन जायमाना विलक्षणता फलकाले प्रकाशते तथा पूर्वकालिकोपसर्गसम्बन्धेन जायमानः उपसर्गार्थकृतौ विशेषः उपसर्गप्रयोगकाले प्रकाशते एवं च पूर्वमुपसर्गयोगो नाम तदर्थसम्बन्धः तत उपसर्गशब्दात् पूर्वं फलानां For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646