Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४४२ . श्रीतिलकाचार्यविरचितटीकायुतम् .
यथा आहिताग्नि:-ब्राह्मणः । ज्वलनं नमस्यति । नानाहुतिमन्त्रपदा भिषिक्तम्आहुतयो घृतप्रक्षेपाद्याः, मन्त्रपदानि चाग्नये स्वाहेत्यादीनि, तैरभिषिक्तं संस्कृतम्। एवम्अग्निमिवाचार्यम् । उपतिष्ठेद्-विनयेन सेवेत । अनन्तज्ञानोपगतोऽपि सन्-अनन्तं स्वपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं, तेनोपगतोऽपि सन् । किमङ्ग ? पुनरन्यः।।
एतदेव स्पष्टयन्नाहजस्संतिए धम्मपयाइं सिक्खे, तस्संतिए वेणइयं पिउंजे । सक्कारए सिरसा पंजलीओ, कायग्गिरा भो मणसा वि निचं ॥१२॥
यस्यान्तिके धर्मपदानि शिक्षेत । तस्यान्तिके विनय एव वैनयिकं प्रयुञ्जीत। तथा तं कायेन शिरसा प्राञ्जलि:-शिरसि प्रकर्षण न्यस्ताञ्जलिः । गिरा-वाचा प्रियङ्करया । मनसा-भावप्रतिबन्धेन । भो-इत्यामन्त्रणे । अहो ! साधो ! भवान् सत्कारयेत्-अभ्युत्थानादिभिः सन्मानयेत् ।।
एवं च मनसि कुर्यादित्याहलज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, ते हं गुरू सययं पूययामि ।।१३।।
लजा-अपवादभयरूपा । दया संयमो ब्रह्मचर्यं च । एतानि कल्याणभागिनःमोक्षार्थिनो जीवस्य । विशोधिस्थानम्-कर्ममलापनयनास्पदम् । इति मां गुरवः सततमनुशासयन्ति । तान् अहं गुरून सततं पूजयामि ।।
इतश्चैते पूज्या इत्याहजहा निसंते तवनश्चिमाली, पभासई भारहकेवलं तु । एवायरिओ सुयसीलबुद्धीए, विरायई सुरमझे व इन्द्रो ।।१४।।
यथा निशान्ते-दिने जाते । तपनर्चिमाली-सूर्यः । प्रभासते । भरतं केवलम्-परिपूर्णम् । तुशब्दाद्-अन्यच्च क्रमेण । एवमाचार्यः श्रुतेन । शीलेन-सदाचारेण। बुद्ध्या-स्वाभाविक्या युक्तया । प्रकाशयति जीवादितत्त्वानीत्यर्थः । एवं वर्तमानः सुसाधुभिः परिवृत्तो विराजते । सुराणाम्-वैमानिकानाम् । मध्ये इन्द्र इवेति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574