Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम्
।। प्रशस्तिः ।।
तीर्थे वीरप्रभोः सुधर्मगणभृत्, सन्तानलब्धोन्नतिः, चारित्रोज्वलचन्द्रगच्छजलधि - प्रोल्लासशीतद्युतिः ।
साहित्यागमतर्कलक्षणमहा-विद्यापगासागरः, श्रीचंद्रप्रभसूरिरद्भुतमति-र्वादीभसिंहोऽभवत् ।।१।। शार्दूलविक्रीडितम् तत्पट्टलक्ष्मीश्रवणावतंसाः, श्रीधर्मघोषप्रभवो बभूवुः ।
यत्पादपद्मे कलहंसलीलां, दधौ नृपः श्रीजयसिंहदेवः ।।२।। उपजातिः तत्पट्टोदयशैलशृङ्गमभजत्, तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया, कोऽप्यत्र भानुर्नवः ।
सम्प्राप्ताभ्युदयः सदैव तमसा, नो जातु विच्छायितो,
नैवोच्चण्डरुचिः कदाचिदपि न, प्राप्तापरागस्ततः ।। ३ ।। शार्दूलविक्रीडितम् विललस स्वैरं, तत्पट्टप्रासादचन्द्रशालायां ।
श्रीमान् शिवप्रभुगुरुः, संयमकमलाकृता शक्तिः ।।४।। आर्या श्रीशिवप्रभसूरिणां, तेषां शिष्योऽस्मि मन्दधीः ।
नाम्ना श्रीतिलकाचार्य:, श्रुताराधनगृद्धिभाक् ।।५।। आर्या एतां सोऽहं विषमदशवै - कालिकग्रन्थटीकां, तत्पादाब्ज-स्मरणमहसा, मूढधीरप्यकार्षम् । तद्यत्किञ्चिद्-रभसवशतो, दृब्धमस्यामशुद्धम्,
तत्संशोध्यं, मयि कृतकृपैः, सूरिभिः सत्त्वविद्भिः ।। ६ ।। मन्दाक्रान्ता
टीकां रचयता चैतां, यन्मया सुकृतं कृतम् ।
भवे भवेऽहं तेन स्यां श्रुताराधनतत्परः ।।७।।
,
विक्रमनृपात् त्रयोदश शतमितसंवत्सरेषु ।
यातेषु टीका विनिर्ममेऽसौ, गच्छति चतुरुत्तरे वर्षे ||८|| आर्या शिष्या नः शस्यचारित्राः, सर्वशास्त्राब्धिपारगाः । अस्यां सहायकं चक्रुः, श्रीपद्मप्रभसूरयः ।। ९ ।। शिष्योऽस्माकमिमां टीकां, यशस्तिलकपण्डितः । अलिखत् प्रथमादर्शे, शोधयित्वार्थतत्त्ववित् ।।१०।।
Jain Education International
५१७
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 568 569 570 571 572 573 574