Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम् ___५१५ इत्यलं प्रसङ्गेन ।।
विहारकालमानमाहसंवच्छरं वा वि परं पमाणं, बीयं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ।।११।।
संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । अपिशब्दाद् ऋतुबद्धकाले मासकल्पः, एकत्रोकृष्टं निवासकालमानमेतत् । द्वितीयं च वर्ष वर्षणं वर्षाकालं न तत्र वसेत् । यत्रैको वर्षाकाल: कृतः, तत्र द्वितीयतृतीयौ परिहत्य चतुर्थः कल्पते । चकाराद्यत्रैको मासकल्पः कृतः, वर्षां विना तत्र मासद्वयं विमुच्यान्यः पुनः कल्पते । तथा सूत्रस्य मार्गेण-आगमादेशेन । चरेद् भिक्षुः । तथापि नौघतः श्रुतग्राही स्यात् । अपि तु सूत्रस्यार्थः-पूर्वापरविरुद्धः पारमार्थिकोत्सर्गापवादगर्भः । यथा आज्ञापयतिनियुङ्क्ते तथा वर्तेत । अपवादपदे च वृद्धस्य ग्लानस्य वा नित्यवासोऽपि त्रिधाकृते क्षेत्रे वसति-हिंडि-स्थण्डिलानि मासद्वयद्वयं परिहृत्य क्रमेण परिशीलयतो न दोषः । अभावे त्वेषां निर्मायस्य, निर्ममस्य, अशक्तस्य, एकत्र स्थितस्यापि न दोषः ।। : एवं विविक्तचर्यावतः सुन्दरगुणोपायमाह
जो पुव्वरत्तावररत्तकाले, संविक्खई अप्पगमप्पगेणं । किं मे कडं किञ्चमकिञ्चसेसं, किं सक्कणिज्जं न समायरामि ?।।१२।।
य:- साधुः । पूर्वरात्रापररात्रकाले-रात्रौ प्रथमचरमप्रहरयोः । सम्प्रेक्षते । आत्मानमात्मना । कथमित्याह-किं मया कृतम्-शक्त्यनुरूपं तपश्चरणादि । किं च मे कृत्यशेषम् उद्धृत्तम् । किं शकनीयम्-वयोऽवस्थानुरूपं, वैयावृत्यादि । न समाचरामि ।।
तथाकिं मे परो पासइ किंच अप्पा, किं वाहं खलियं न विवजयामि ।
इवेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुजा ।।१३।। - किं मम स्खलितं परः स्वपक्षपरपक्षलक्षणः पश्यति । किं वा आत्मा क्वचित्मनाक् संवेगापन्नः । किं वाहम् ओघत एव स्खलितं न विवर्जयामि । इत्येवं सम्यगनुपश्यन् । अनागतम्-आगामिकाले । यः प्रतिबन्धं संयमविषयं न करोति।। * उद्धृ० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574