Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 567
________________ ५१४ श्रीतिलकाचार्यविरचितटीकायुतम् न प्रतिज्ञापयेत्-मासकल्पसमाप्तौ गच्छन् भूयोऽभ्यागतस्य ममैवैतानि दातव्यानि, नान्यस्य इति प्रतिज्ञां गृहस्थं न कारयेत् । किमाश्रित्याह । शयनासने, शय्याम्, वसति-निषद्याम् - स्वाध्यायभूमिम् । तथा भक्तपानम्- खण्डखाद्यद्राक्ष्यापानादि । एवं कृते ममत्वदोषात् । सर्वत्रैव ममत्वप्रतिषेधमाह । गामे कुले इत्यादि स्पष्टम् ।। उपदेशाधिकार एवाह A गिहिणो वेयावडियं न कुज्जा, अभिवायणवंदणपूयणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ।। ९ ।। गृहिणो वैयावृत्यम्-शयनासनार्पणगृहरक्षणकल्पस्थकखेलनादिकं न कुर्यात् । गृहिणस्तस्य च दोषप्रसङ्गात् । अभिवादनम् वाग्नमस्कारक्रिया । वन्दनम्- गुणस्तुतिः । पूजनम्-वस्त्रादिभिः । असंक्लिष्टे:-गृहिवैयावृत्यकरणादिसंक्लेशरहितैः । साधुभिः समं वसेत् मुनिः । चारित्रस्य यतो न हानिः । विशेषेणाह - नया लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ।। १० ।। न यदि लभेत । निपुणं सहायं गुणाधिकं वा गुणैः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत कामेषु असज्जमानः- सङ्गमगच्छन्, न तु पापमित्रेषु पार्श्वस्थादिषु सङ्गं कुर्यात् । अन्यैरप्युक्तम् वरं विहर्तुं सह पन्नगैर्भवे-च्छ्ठात्मभिर्वा रिपुभिः सहोषितम् । अधर्मयुक्तैश्चपलैरपण्डितैः, न पापमित्रैः सह वर्त्तितुं क्षमम् ।।१।। वंशस्थविलम् इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन सङ्गतः, परत्र चैवेह च हन्यते जनः ।।२।। वंशस्थविलम् तथा परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसन्धत्ते, सोऽन्यस्मै स्यात् कथं हितः ? ।।३।। तथा ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहु-रेभिश्च सह सङ्गतम् ।।४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574