Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 565
________________ ५१२ श्रीतिलकाचार्यविरचितटीकायुतम् अणुसोयसुहो लोओ, पडिसोओ आसवो सुविहियाणं ।। अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ।।३।। निम्नाभिसर्पणवद् विषयेषु प्रवर्तनम् अनुश्रोतः । तत्सुखो लोकः । प्रतिश्रोतः। तद्विपरीतः, आश्रवः-प्राणातिपातविरत्यादिप्रतिज्ञारूपः । सुविहितानाम्-साधूनाम् । इहाश्रवशब्देन प्रतिज्ञाभिधीयते । तथा चाभिधानचिन्तामणिः संवित् सन्धाऽऽस्थाऽभ्युपायः, संप्रत्याङ्भ्यः पर श्रवः । अङ्गीकारोऽभ्युपगमः, प्रतिज्ञाऽऽगूश्च सङ्गरः ।।२७८।। अनुश्रोत:-शब्दादिविषयानुकूल्यं, संसारकारणत्वात् संसारः । यथा-विषं मृत्युः, दधि-त्रपुषी प्रत्यक्षो ज्वरः । प्रतिश्रोतः उक्तरूपः । तस्मात् संसारादुत्तारहेतुत्वाद् उत्तारः । यथा-तन्दुलान् वर्षति पर्जन्य इति ।। तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं । चरिया गुणा य नियमा, हवंति साहूण दट्टब्वा ।।४।। तस्मादाचारपराक्रमेण-आचारे ज्ञानाचारादौ, पराक्रमः प्रवृत्तिर्यस्य स तथा तेन । संवरे-आश्रवनिरोधे । समाधिः-एकाग्रता, अनाकुलत्वं वा । बहुलम्-प्रचुर यस्य स तथा तेन । चर्या-अनियतवासादिका । गुणा:-मूलगुणोत्तरगुणाः । नियमाःपिण्डशुद्धयादीनां स्वकुलासेवननियोगाः । भवन्ति । साहूण-त्ति तृतीयार्थे षष्ठी, साधुना द्रष्टव्याः । कोऽर्थः चर्यादयः ? सम्यगासेव्याः प्ररूपणीयांश्च ।। चर्यामाहअनिएयवासो समुयाण चरिया, अन्नायउंछं पयरिक्रया य । अप्पोवही कलहविवजणा य, विहारचरिया इसिणं पसत्था ।।५।। अनियतवासः-मासकल्पादिना । समुदानचर्या-अनेकत्र याचितभिक्षाचरणम् । अज्ञातोञ्छम्-प्राग्वद्, विशुद्धोपकरणविषयम् । प्रविरिक्तता-विजनैकान्तसेविता । अल्पोपधित्वम्-अनुल्बणस्तोकोपधिसेवित्वम् । कलहविवर्जना च । विहारचर्याविहरणस्थितिः, विहरणमर्यादा । ऋषीणां प्रशस्ता-व्याक्षेपाभावात् ।। । चर्याविशेषोपदेशमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574