Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 563
________________ श्रीतिलकाचार्यविरचितटीकायुतम् अशाश्वता-प्रायो यौवनकालभाविनी । भोगपिपासा जन्तोर्भोगतृष्णाया । अशाश्वतत्त्वे कारणान्तरमप्येतत् । न चेत् शरीरेणानेन - वृद्धेनापि सता । अपैष्यति । यदि न यास्यति तथापि हे जीव ! किमाकुलस्त्वम् । अपैष्यति जीवितपर्यायेण ममजीवनव्यापगमेन निश्चितं यास्यत्येव नोत्प्रव्रजति ।। ५१० अस्यैव फलमाह जस्सेव अप्पा ओ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणं । तं तारिसं नो पयलंति इंदिया, उप्पायवाया व सुदंसणं गिरिं । ।१७ । । यस्य-साधोः । एवम्-उक्तप्रकारेण । आत्मा तुरेवार्थे, आत्मैव । निश्चितः - दृढः, क्वचिद् विघ्ने परकृते इन्द्रियकृते वा उपस्थिते । त्यजेद् देहं न तु धर्मशासनम् - धर्माज्ञाम् । तं तादृशम्-निश्चितम् । न प्रचलयन्ति । संयमाद् इन्द्रियाणि । उत्पातवाता इव सुदर्शनं गिरिम् - मेरुपर्वतं स्थानात् ।। उपसंहरन्नाह इव संपस्सिय बुद्धिमं नरो, आयं उवायं विविहं वियाणिया । कारण वाया अटु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिद्विज्जासि त्ति बेमि ।। १८ ।। इत्येवम्-अध्ययनोक्तं दुःप्रजीवित्वादि सम्यग् दृष्ट्वा बुद्धिमान्नरः । आयम्उत्प्रव्रजननिषेधलाभम् । अस्यैव उपायम् - कारणभूतं श्रीस्थूलभद्रादिचरितचिन्तनं श्रुताभ्यासादिकं विविधं विज्ञाय । कायेन वाचा अथ मानसेन । अनेन त्रयेण त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत् । इति ब्रवीमि इतिपूर्ववत् ।। ।। रतिवाक्याख्यप्रथमचूलिकाटीकासमाप्ता ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574