Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
५१३
श्रीदशवकालिकसूत्रम् आइनोमाणविवजणा य, ओसन्नदिट्ठाहडभत्तपाणे ।। संसट्ठकप्पेण चरिज भिक्खू, तजायसंसट्ठ जई जईत्ता ।।६।।
आकीर्णावमानवर्जना च-आकीर्णम्-राजकुलसंखड्यादि, अवमानम्-दुर्भिक्षादि, आकीर्णे हस्तपादादिलूषणदोषात्, अवमाने अलाभाधाकर्मादिदोषात् । उत्सनं शब्दः प्रायोऽर्थे, प्रायो दृष्टं सन् आहृतं दृष्टाहृतं च तत् भक्तपानम्, इदं साधूनां प्रशस्तम्, अत्र प्रथमार्थे सप्तमी । संसृष्टकल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद् भिक्षुः । अन्यथा पुरःकर्मादिदोषात् । तजातसंसृष्टे-आमगोरसमधुम्रक्षणादिसंसृष्टे हस्तमात्रकादौ । यतिर्यतेतयत्नं कुर्याद्, न गृह्णीयादित्यर्थः । संसर्जनादिदोषप्रसङ्गात् ।।
उपदेशाधिकार एवेदमाहअमजमंसासि अमच्छरीया, अभिक्खणं निविगयं गयाय । अभिक्खणं काउसग्गकारी, सज्झायजोगे पयओ हविजा ।।७।। अमद्यपो, अमांसाशी।
अत्राह पर:- आरनालारिष्ठानि, सन्धानानि, ओदनाद्यपि प्राण्यङ्गत्वान्मांसमिति त्याज्यम् । ___तदसत् । अमीषां मद्यमांसत्वायोगात् । लोकशास्त्रयोरप्रसिद्धत्वात् सन्धानप्राण्यङ्गतुल्यता च नेह साध्वी । अतिप्रसङ्गदोषात् गोसम्भवत्वाद् दुग्धवद् गोमूत्रपानं, स्त्रीत्वतुल्यतया कलत्रवत् मातृगमनं प्रसक्ष्यति । तत इत्यलं प्रसंगेनाक्षरगमनिकामात्रप्रक्रमात् ।
तथा च । अमच्छरी च-न परसम्पद्वेषी च स्यात् । अभीक्ष्णम्-पुनः पुनःनिर्विकृतिकाङ्गता परिभोगोचिता अपि षड्विकृतयः पुष्टकारणाभाव विनान्तर्भोक्तव्याः। बहिरपि अभ्यङ्गो न कार्य: । अभीक्ष्णं कायोत्सर्गकारी-धर्मध्यानार्थम् । स्वाध्यायेपञ्चप्रकारे वाचनादौ, योगे-आचाम्लादौ । प्रयतो भवेत्-प्रयत्नं कुर्यात् । अन्यथोन्मादप्रसङ्गात्।। किं च
न पडिनविजा सयणासणाइं, सिजं निसिजं तह भत्तपाणं ।
गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुजा ।।८।। * स्परप्रद्वेषी २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574