Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीतिलकाचार्यविरचितटीकायुतम्
तार्तीयीकः सुकृतद्रुमालवालः पुनः सहजपालः । एषां धर्मैकरसा स्वसाऽथ माल्हेऽभिधानाऽस्ति ।।१९।। आर्या नागमति कलत्रं नेमाकस्यास्ति निर्मलचरित्रम् । लक्ष्मीधरस्य दयिता लक्ष्मश्रीः सकलजन्तुहिता ।। २० ।। आर्या सीतेव विमलशीला, सीतादेवीति सहजपालस्य । विनयालङ्कृतहृदया, दयाविलासान्विता दयिता ।। २१ ।। आर्या अङ्गजाः पासणागस्य, परोपकरणोल्बणाः । सम्भवो धनसिंहश्चासपालश्चेति सन्त्यमी ।। २२ ।। लाहिणि- पातसंज्ञं जिनचरणाराधने सदाभिज्ञम् । भगिनीयुगलं जज्ञे विज्ञममीषां मतिप्राज्ञम् ।। २३ ।। आर्या अङ्गभूरांमणागस्य, केलिसिंहः कलागृहम्
तस्यास्ति शीलसम्पन्ना, कमलश्रीः सधर्मिणी ।। २४ ।। फूदी समस्ति किल शांतिकुमारपुत्री, नेमासुता मतिमती ननु रत्नदेविः । लक्ष्मीधरस्य दयिता खलु नायकेति, बद्धादरा सुकृतकर्मणि पर्वणी ।। २५ ।। वसन्ततिलका इतश्च— सद्धर्मकर्मसु रतः सहृदामणागः, पादाम्बुजं निजगुरोरुपसेवमानः शुश्राव भावपरिचुम्बितचित्तवृत्तिर्ज्ञानानुभावमिति बुद्धिधनः कदापि ।। २६ ।। वसन्ततिलका तद्यथा— मोहान्धकारहरणैकदिवाकरस्य संसारवारिनिधिदुर्द्धरवडवाग्नेः । चारित्रराजसचिवस्य शिवस्य बन्धो-र्ज्ञानस्य कः किल गुणौघवदावदः स्यात् ? ।।२७।। वसन्ततिलका दुष्षमादोषतश्चैतत्, पुस्तकाधीनतां गतम् । तल्लेखनमतः पुण्यद्रुमदोहदसोदरम् ।। २८ ।। अथाऽऽमणागो निजवल्लभायाः, आमश्रियः श्रेयसपुण्यहेतोः ।
व्यलेखयत् श्रीदशकालिकस्य, वृत्तिं समग्रश्रुतसाररूपाम् ।।२९ ।। उपजातिः भुवनानलेंदु १३१४ संख्ये विक्रमसंवत्सरे प्रवृत्ते च । सङ्घसमक्षमिदानीं, तद्व्याख्यां कारयामास ।। ३० ।। युग्मम् ।। र्या राजहंसाविमौ यावत् क्रीडतः पुष्करान्तरे ।
५२०
वाच्यमानं बुधैस्तावदिदं नन्दतु पुस्तकम् ।।३१।। मङ्गलं महाश्रीः ।।छ।। शुभं भवतु ।। प्रशस्तिः समाप्ता ।।छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 571 572 573 574