Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 572
________________ श्रीदशवैकालिकसूत्रम् देवचन्द्रस्य देवश्री-कुक्षिजस्तनुजोऽजनि । थिरचन्द्रः कलासान्द्रः सुता नायकनामिका ।।६।। तस्यैव देमतकलत्रसमुद्भवोऽभूत्, प्रज्ञाचणः सलखणः प्रथमस्तनूजः । आचारचारुरपरो धनदेवनामा, गाम्भीर्यधैर्यशममुख्यगुणावुभौ च ।।७।। वसन्त० थिरदेविरभूद् भार्या, थिरचंद्रस्यातिविश्रुतौदार्या । असपत्नगुणं पत्नीयुगलं जज्ञे सलखणस्य ।।८।। आर्या आद्या सूहवदेविः, सहदेविश्चापरा परार्थपरा । धनदेवस्य च समजनि, सधर्मिणी धाहिणिीरा ।।९।। आर्या थिरदेवीदयितायां, थिरचन्द्रस्याभवन्नथांगरुहाः । ऐरावतदंता इव चत्वारो निर्मलात्मानः ।।१०।। आद्यस्तेषु समस्तशस्तगुणवर्ग: पासणागः सुधीधर्मोद्धारकृदामणाग इति विख्यातो द्वितीयस्तथा । शान्तः शान्तिकुमार इत्यधिगतो बुद्ध्या तृतीयः पुनस्तुर्यः संयमधुर्यधीर्महणसिंहः सिंहशूरोऽस्त्यहो ! ।।११।। शार्दूलविक्रीडितम् राजीमतीति तेषां, भगिनी भग्नातिमात्रमोहबला । यन्मानसे मरालीलीलायितमातनोति कृपा ।।१२।। आर्या पाहिणिः पासणागस्य, गेहिनी गुणमन्दिरम् । । - आमश्रीरामणागस्य, दाराश्चाचारपारगाः ।।१३।। शान्ता शान्तिकुमारस्य पाल्हुकेति सधर्मिणी । कलाकलापसम्पन्ना मूर्तिश्चान्द्रमसी यथा ।।१४।। सुतवती दुहिताद्वयमादिमा, सलखणस्य च सूहवगेहिनी । अभिधया प्रथमाऽजनि छाहिणी:, शमपरा त्वपरा ननु रूपिणिः ।।१५।। द्रुतविलम्बितम् द्वितीया प्रेयसी तस्य, सहदेविरजीजनत् । वोढारं ललितादेव्याः, पासवीरं तनूद्भवम् ।।१६।। धनदेवस्य च दयिता, धाहिणिनाम्नी सुतत्रयमसूत । धर्मार्थकामनाम्नः पुरुषार्थांस्त्रीन् क्रिया यद्वत् ।।१७।। आर्या नेमाकः प्रथमस्तेषु, प्रथमो धर्मकर्मणि । । । द्वितीयोऽप्यद्वितीयोऽस्ति, क्षमी लक्ष्मीधराभिधः ।।१८।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 570 571 572 573 574