Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 561
________________ ५०८ श्रीतिलकाचार्यविरचितटीकायुतम् कश्चन सचेतनतरः परमेवं परितप्यते इत्याहअजं याहं गणी हुँतो, भावियप्पा बहुसुओ । जइहं रमंतो परियाए, सामण्णे जिणदेसिए ॥९॥ अद्ययावद् । अहं गणी-आचार्यः । अभविष्यम् भावितात्मा-संवेगरङ्गरङ्गितात्मक: । बहुश्रुतः-सम्पूर्णागमः । यद्यहम् । अरमिष्ये । पर्याये श्रामण्ये-श्रमणसम्बन्धिनि । जिनदेशिते ।। अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाहदेवलोयसमाणो य, परियाओ महेसिणं । रयाणमरयाणं तु, महानरयसालिसो ।।१०।। स्पष्टः । नवरम् । अरतानाम्-विषयाभिलाषिणाम् । पुनर्महानरकसदृश:मानसदु:खातिरेकात् । एतदुपसंहारेणैव निगमयन्नाहअमरोवमं जाणिय सुक्खमुत्तमं, रयाणं परियाइ तहारयाणं । नरओवमं जाणिय दुक्खमुत्तमं, तम्हा रमिजा परियाइ पंडिए ।।११।। अमरोपमं ज्ञात्वा सौख्यमुत्तमं रतानां पर्याये-प्रव्रज्यारूपे । तथा अरतानां व्रतपर्याये नरकोपमं ज्ञात्वा दुःखमुत्तमम् । तस्मात् पण्डितः-सुखदुःखज्ञः । प्रव्रज्यापर्याये रमेत । येन दिव्यसुखभागी भवति ।। पर्यायच्युतस्यैहिकदोषमाहधम्माउ भलु सिरिओ अवेयं, जनग्गिविज्झायमिवप्पतेयं । हीलंति णं दुविहियं कुसीलं, दाढुद्धियं घोरविसं व नागं ।।१२।। धर्माद् भ्रष्टम्-उत्प्रव्रजितम् । श्रियोऽपेतम्-अपगतश्रीकम् । यज्ञाग्निमिव यज्ञावसानविध्यातम् । अल्पतेजसं, अल्पशब्दोऽभाववचनः, निस्तेजसं भस्मप्रायमित्यर्थः । उद्धृतदाढं घोरविषं नागमिव । एवं दुर्विहितम्-दुष्टानुष्ठानम् । कुशीलं हीलयन्तिअवज्ञया परिहरन्ति ।। इदानीमुत्प्रव्रजितस्य ऐहिकामुष्मिकापायमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574