Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
५०९
श्रीदशवैकालिकसूत्रम् इहेव धम्मो अयसो अकित्ती, दुन्नामधेयं च पिहुजणंमि । चुयस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिट्ठओ गई ॥१३॥
इहैव-इहलोके एव । अधर्मोऽयं-पापात्मा । अयशः-असाधुवादः । अकीर्तिःनिन्दनीयता । दुर्नामधेयं च-अग्राह्यनामता पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्टलोके । च्युतस्य धर्मात्-उत्प्रव्रजितस्य । अधर्मसेविन:-कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः । सम्भिन्नवृत्तस्य-खण्डितचारित्रस्य । अधस्ताद् गति:-नरकेषूपपादः ।। अस्यैव विशेषापायमाहभुंजित्तु भोगाइं पसज्झ चेयसा, तहाविहं कट्ट असंजमं बहुं । गई च गच्छे अणभिज्झियं दुहं, बोही य से नो सुलहा पुणो पुणो।।१४।।
स-उत्प्रव्रजितः । भुक्त्वा भोगान्-शब्दादीन् । प्रसह्य-बलात् । चेतसाउपलक्षणत्वात् वाचा कायेन च । तथाविधं असंयमम्-कृष्याद्यारम्भम् असंतोषाद् बहुं कृत्वा गतिं च गच्छति । अनभिध्याताम्-अनिष्टाम् । दुःखाम्-दुःखजननीम् । बोधिश्चजिनधर्मावाप्तिः । तस्य-निःक्रान्तस्य । न पुनः सुलभा प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वात् ।।
कश्चिदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याहइमस्स ता नेरइयस्स जंतुणो, दुहोवणीयस्स किलेसवत्तिणो ।
पलिओवमं झिज्झइ सागरोवमं, किमंग ! पुण मज्झ इमं मणोदुहं ।।१५।। ... अस्य तावन्ममैव जन्तोः नैरयिकस्य दुःखोपनीतस्य-दुःखहेतुभिः कर्मभिरुपनीतस्य नैरयिकत्वं प्रापितस्य क्लेशवर्तननरकस्थस्यैव पल्योपमं क्षीयते । सागरोपमं च कर्मानुमानेन। किमङ्ग ! पुनर्ममेदम्-संयमारतिनिःपन्नम् । मनोदुःखम्-अल्पकालिकत्वात् । क्षिप्रं क्षेष्यतीति मत्वा नोत्प्रव्रजति ।
विशेषेणैतदेवाहन मे चिरं दुक्खमिणं, भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेणवेसई, अविस्सई जीवियपजवेण मे ।।१६।। न मम चिरम्-प्रभृतकालम् । दुःखमिदम्-संयमारतिलक्षणं भविष्यति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574