________________
५१४
श्रीतिलकाचार्यविरचितटीकायुतम्
न प्रतिज्ञापयेत्-मासकल्पसमाप्तौ गच्छन् भूयोऽभ्यागतस्य ममैवैतानि दातव्यानि, नान्यस्य इति प्रतिज्ञां गृहस्थं न कारयेत् । किमाश्रित्याह । शयनासने, शय्याम्, वसति-निषद्याम् - स्वाध्यायभूमिम् । तथा भक्तपानम्- खण्डखाद्यद्राक्ष्यापानादि । एवं कृते ममत्वदोषात् । सर्वत्रैव ममत्वप्रतिषेधमाह । गामे कुले इत्यादि स्पष्टम् ।। उपदेशाधिकार एवाह
A
गिहिणो वेयावडियं न कुज्जा, अभिवायणवंदणपूयणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ।। ९ ।।
गृहिणो वैयावृत्यम्-शयनासनार्पणगृहरक्षणकल्पस्थकखेलनादिकं न कुर्यात् । गृहिणस्तस्य च दोषप्रसङ्गात् । अभिवादनम् वाग्नमस्कारक्रिया । वन्दनम्- गुणस्तुतिः । पूजनम्-वस्त्रादिभिः । असंक्लिष्टे:-गृहिवैयावृत्यकरणादिसंक्लेशरहितैः । साधुभिः समं वसेत् मुनिः । चारित्रस्य यतो न हानिः ।
विशेषेणाह -
नया लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ।। १० ।।
न यदि लभेत । निपुणं सहायं गुणाधिकं वा गुणैः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत कामेषु असज्जमानः- सङ्गमगच्छन्, न तु पापमित्रेषु पार्श्वस्थादिषु सङ्गं कुर्यात् । अन्यैरप्युक्तम्
वरं विहर्तुं सह पन्नगैर्भवे-च्छ्ठात्मभिर्वा रिपुभिः सहोषितम् । अधर्मयुक्तैश्चपलैरपण्डितैः, न पापमित्रैः सह वर्त्तितुं क्षमम् ।।१।। वंशस्थविलम् इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः ।
असत्प्रवृत्तेन जनेन सङ्गतः, परत्र चैवेह च हन्यते जनः ।।२।। वंशस्थविलम्
तथा
परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् ।
आत्मानं योऽभिसन्धत्ते, सोऽन्यस्मै स्यात् कथं हितः ? ।।३।।
तथा
ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहु-रेभिश्च सह सङ्गतम् ।।४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org