Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम्
४६३ निर्विषकृतेन्द्रियव्यापारः । अध्यात्मरतः-प्रशस्तध्यानसक्तः । सुसमाहितात्मा । सूत्रार्थं च विजानाति यः स भिक्षुः ।।
तथाउवहिमि अमुच्छिए अगिद्धे, अनायउंछं पुलनिप्पुला य । कयविक्कयसंनिहिओ विरए, सव्वसंगावगए य जे स भिक्खू ।।१६।।
उपधौ-वस्त्रादिरूपे । अमूर्छितः-तत्र मोहत्यागेन । अगृद्धः-अनाकाङ्क्षी । अज्ञातोञ्छं चरति, अज्ञातोञ्छमिव अज्ञातोञ्छम्-यथा अज्ञातोञ्छम् अल्पं भवति तथा उपधिमप्यगृद्धः, स्तोकं स्तोकं, भावशुद्ध धर्मार्थितया दत्तं गृह्णाति यः सोऽज्ञातोञ्छचारी । तथा पुल-समुच्छ्रये, पुलतीति पुलः, अगृद्धत्वाच्चारित्रे समुच्छ्रितः, प्राकृतत्वाद्विभक्तिलोपः । निःपुलाक:-संयमासारतापादकदोषरहितः । क्रयविक्रयसनिधिभ्यो विरतः । सर्वसङ्गापगतश्च यः । स भिक्षुः ।।
किं चअलोलभिक्खू न रसेसु गिद्धे, उंछंचरे जीविय नावकंखे । इड्डिं च सक्कारणपूयणं च, चरे ठियप्पा अणिहे स भिक्खू ।।१७।।
अलोल:-नाप्राप्तप्रार्थकः, भिक्षुः-साधुः, अलोलश्चासौ भिक्षुश्च अलोलभिक्षुः । न रसेषु । गृद्धः-आसक्तः । उञ्छं चरति ।
आह-प्रागप्येतदुक्तम् ?
-सत्यम् । प्रागुपधिमधिकृत्योक्तम् । इह त्वाहारमिति न पौनरुक्तव्यम् । ... जीवितम्-असंयमजीवितम् । नावकाङ्क्षति । ऋद्धिं च-आमोषध्यादिकाम् । सत्कारणं च-वस्त्रादिभिः । पूजनं च-स्तवनादिना । त्यजति-न तदर्थमेव यतते । स्थितात्मा-ज्ञानादिषु । अनीहो यः स भिक्षुः ।।
तथान परं वइजासि अयं कुसीले, जेणं न कुप्पिज न तं वइज्जा । जाणिय पत्तेय पुनपावं, अत्ताणं न समुक्कसे जे स भिक्खू ।।१८।।
न । परम्-स्वशिष्यादन्यम् । वदत्ययं कुशील इति-तदप्रीतिसम्भवात्, स्वशिष्यं तु शिक्षाबुद्धया वदत्यपि । येन न अन्यः कुप्यति । तम्-सन्तमपि तद्दोषम् । न वदति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574