Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 539
________________ ४८६ श्रीतिलकाचार्यविरचितटीकायुतम् अथ कोशा सखीरूचे, बिभेति मम वल्लभः । दृष्टौ दृष्टिं न बध्नाति, ध्यानभङ्गभयादिव ।।१७५ ।। वीरमानी स्थूलभद्रो, भीरु ! तां सहते न हि । अधारयद् दृशं तस्याः, सम्मुखीं सुभटीमिव ।।१७६।। निहन्ति स्म कटाक्षैस्तं, मुख्यैः स्मरशरैरिव । तथा चक्रेऽङ्गहारादीन्, तत्कालोद्दीपितस्मरान् ।।१७७।। . हावभावविलासादीन्, सविकारानदर्शयत् । कुशीलव इवानेका, भूमिका नाटकान्तरे ।।१७८ ।। लीलायितमिदं सर्वं, तस्या मुनिरमन्यत । महाभूतग्रहावेश-वश्याया इव वल्गितम् ।।१७९।। महेन्द्रजालिकस्यैव, विश्वं चैतद्विजृम्भितम् । ताण्डवं काष्ठपुत्र्या वा, तन्तुसञ्चारसम्भवम् ।।१८०।। . व्रताग्रहग्रहोन्मुक्त्यै, प्राणेशैकाग्रया दृशा । , विन्यस्ताक्षमहामन्त्रं, मद्वपुर्यन्त्रमीक्ष्यताम् ।।१८१।। तदिदं कोशया प्रोक्तं, श्रुत्वा मन्त्रिसुतो मुनिः । बबन्ध सिद्धिसम्बन्ध-हेतोर्थ्यानं तदङ्गके ।।१८२।। केशपाशच्छलात् पाप-मुद्भूयेव प्रवाहयुक् । त्रैलोक्योपप्लवे हेतुः, केतुः सीमन्तदम्भतः ।।१८३।। ललाटपट्टः कष्टाय, यूनामष्टमचन्द्रवत् । आर्द्रवोपमौ कर्णी, नाशा श्लेष्मप्रणालिका ।।१८४।। ध्रुवौ संसारकान्तारे, व्याधस्येव मनोभुवः । युवैणचरणाधाते, लोह्यौ कर्तरिके इव ।।१८५।। कटाक्षविकटाहीनां, करण्डसदृशौ दृशौ । नव्या जिनखण्डाभौ, लुलल्लालौ रदच्छदौ ।।१८६।। मुखान्तर्निहिता दन्ताः, धात्रास्थनामिव कीलकाः । एतौ कुम्भकपालाभौ, कपोलौ च विलोमको ।।१८७।। । * ०तं चान्यदपि ६-१० ।। " प्रेमप्रेत० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। - लोहस्ताकर्तिके २.६१०, अयं मूलपाठ: १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574