Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम्
४९३ निबिडध्याननीडस्थं, चेतश्चटकबालकम् । . धार्यं नो चेद् ग्रसिष्यन्ते, विषया वायसा इव ।।२६६।। मुने ! गच्छ गुरूपान्ते, स्थानस्यैतस्य सम्प्रति । आलोचयस्व निःशेषं, तथा निन्दय गर्हय ।।२६७।। प्रायश्चित्तं प्रपद्यस्व, विशुद्धं व्रतमाचर । मुनिरप्यूचिवान् भद्रे !, मिथ्या दुःकृतमस्तु ते ।।२६८ ।। भवत्या वचनालापं, गुर्वादेशमिवाखिलम् । करिष्यामीत्युदित्वागात्, सम्भूतगुरुसन्निधौ ।।२६९।। क्षमयित्वा गुरून् सर्वं, स्थूलभद्रमुनिं तथा । आलोचनां गृहीत्वाथ, कुरुते दुष्करं तपः ।।२७० ।। श्रीसम्भूतगुरोः पादा-स्तमःप्रशमहेतवः । सूर्यपादा इव क्षोणी-मन्येद्यु_मपावयन् ।।२७१।।
अन्यदा रथिने तुष्टः, कोशामुर्वीपतिर्ददौ । मनो विनापि तं सापि, राजायत्तेति शिश्रिये ।।२७२।। स्थूलभद्रगुणानेव, रथिनोऽग्रे शशंस सा । पीयूषं येन पीतं स्यात्, तस्य किं स्वदतेऽपरम् ? ।।२७३।। रथी रञ्जयतुं कोशा-मूचे पश्य कलां मम । ' गवाक्षस्थो गृहोद्याने, माकन्दद्रुमलुम्बिकाम् ।।२७४ ।। विध्यति स्मेषुणा तस्य, पुडमध्येन तस्य तत् । पुनरन्येन जातैवं, करग्राह्या शरावलिः ।।२७५ ।। छित्त्वा क्षुरप्रवाणेन, वृन्तं तस्याः शरावलिम् । आकृष्य जगृहे लुम्बी, तत्रस्थ एव पाणिना ।।२७६।। कोशाप्युवाच पश्येदं, विज्ञानं त्वं ममापि हि । विधाय सर्षपं राशि, सशिखं तत्पुरस्तदा ।।२७७ ।। शूची न्यस्याथ तस्याग्रे, तदग्रेऽपि ननर्त च ।
न तत्र शूच्या विद्धा सा-ऽचलनैकोऽपि सर्षपः ।।२७८।। . * ति० ६-१० ।। ॐ ति० ६-१० ।। 0 लास्यं तस्योपरिभ्यधात् २. ६-१०, अयं मूलपाठ: १० टिप्पण्यामपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574