Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 555
________________ ५०२ श्रीतिलकाचार्यविरचितटीकायुतम् । भ्रामं भ्रामं कुतोऽप्यागाद्, धनदेवो निजे गृहे । प्रियां पप्रच्छ ते सारां, कर्तुं कोऽप्यागतो न वा ? ।।३८८।। सावदत् त्वदृते सङ्गं, दारिद्र्येण करोति कः ? । आयातः स्थूलभद्रस्तु, भवद्वार्ता स पृष्टवान् ।।३८९ ।। स ऊचे स्थूलभद्रश्चे-दागमिष्यद् गृहे मम । पलायिष्यत दारिद्र्यं, दूराद् दूरेण चौरवत् ।।३९० ।। साभ्यधादागतोऽवश्य-मिति चाख्यातवान् प्रभुः । सोऽथ प्रभुदितोऽवादीद्, भगवान् सत्यमागतः ।।३९१।। चखान स्थानकं तत् स, कुशीमादाय तत्क्षणात् ।। निधिः प्रादुरभूद् भूयान्, श्रेयःकन्द इवोल्वणः ।।३९२।। तेनासौ धनदंमन्यो, धनदेवोऽभवत् ततः । स्थूलभद्रप्रसादोऽस्ये-त्यभूत् ख्यातिरियं जने ।।३९३।। स्थूलभद्रो जनश्रुत्या, श्रुत्वा तद् दध्यिवानिदम् । जज्ञेऽधिकरणं मोहात्, कर्मबन्धाय मत्कृतम् ।।३९४ ।।' ततस्तत्रागमद् भूयः, स्थूलभद्रमहाऋषिः । आयतोऽभिमुखस्तस्य, धनदेवः सनागरः ।।३९५ ।। अचीकरत् प्रवेशं च, तत्रात्युत्सवपूर्वकम् । ऊचे च त्वत्प्रसादोऽयं, प्रभो ! भूतिरियं मम ।।३९६।। अथ प्रबोध्य तं धर्मा-ख्यानेन सकुटुम्बकम् । . सप्तक्षेत्र्यां नियोज्य स्वं, परिव्रज्यामजिग्रहत् ।।३९७ ।। मुनिश्चक्रेऽधिकरणं, न्यवर्तयत च क्षणात् । भवन्ति हि महीयांसो-ऽनुग्रहे निग्रहे क्षमाः ।।३९८ ।। स्वामिना स्थूलभद्रेण, शिष्यौ द्वावथ दीक्षितौ । महागिरिः सुहस्ती चे-त्यार्योपपदनामको ।।३९९ ।। पाठितो गुरुणा प्राज्ञौ, सञ्जातौ दशपूर्विणौ । कृतौ द्वावप्यथाचार्यो, चन्द्रार्काविव तेजसा ।।४०० ।। धर्माख्यान-मर्त्यलोकं प्रबोध्य, प्राप्तः स्वर्गं, स्थूलभद्रो मुनीन्द्रः । देवा देव्य-स्तस्य सर्वेऽपि तस्मिन्, हर्षोत्कर्षात्, कुर्वते पर्युपास्तिम् ।।४०१।। शालिनी Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574