Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
५०१
श्रीदशवैकालिकसूत्रम् जेगीयमानकन्दर्प-विजयः सुरगायनैः । श्रीमतां श्रीकरीभिश्च, खेचरारामवानिव ।।३७३।। अग्रेसरैः श्राद्धजनै-र्मुहुर्वलितकन्धरैः । निपीयमानलावण्यः, सतृष्णैरिव दृक्पुटैः ।।३७४ ।। पौरश्रीकण्ठमुक्तास्रक्, सोदरां चैत्यपङ्क्तिकाम् । प्रणमन् पूर्वसुहृदो, धनदेवस्य धाम्न्यगात् ।।३७५ ।। चतुर्भिः कलापकम् तत्राविशत् तत्र भवान्, प्रकाश इव सेवधिः । दृष्टो दृष्ट्या धनेश्वर्या, चकोर्येव सुधाकरः ।।३७६।। ससंभ्रमं समुत्थाय, भक्त्या विरचिताञ्जलिः । इलातलमिलन्मौलिः, स्थूलभद्रमवदत ।।३७७।। ततः सा स्थूलभद्राय, भद्रासनममण्डयत् । तस्मिन्नास्ते स्म भगवान्, पूर्वाद्राविव भानुमान् ।।३७८ ।। धर्मक्षणविधिप्रश्ने, नाभिनन्दितवानथ । पप्रच्छ प्रणयी किं ते, धनदेवो न दृश्यते ? ।।३७९।। धनेश्वर्यप्यदोऽवादीत्, गृह्णद्भिव्रतमार्हतम् ।। भवद्भिर्भूतिरत्याजि, भूत्यात्याजि च वः सुहृद् ।।३८० ।। अर्थहीनो लधुः सोऽभूत्, प्राप्तलघिमसिद्धिवत् । अर्था एव गुरुत्वाय, नैव ज्ञातिः कुलं कलाः ।।३८१।। पूर्वजानामपि निधीन्, नापदन्वेषयन्नपि । पुरस्थमपि निर्भाग्यो, मणिमश्मवदीक्षते ।।३८२।। अर्थार्थी वः सुहृद् विष्वग, बम्भ्रमीति दिशोदिशम् । नाप्नोत्यनाधिकं स प्राग, हृतदेवादिवित्तवत् ।।३८३।। ज्ञात्वा ज्ञानेन तद्गेहे, निधिं करुणया प्रभुः । दर्शयन्निव हस्तेन, तस्याः स्थानं निधेर्जगौ ।।३८४।। एतच्छेदृक् तच्च तादृग्, जातं प्रेक्षस्व कीदृशम् । अहो ! कर्मगतिर्नृणां, समस्ताप्यसमञ्जसा ।।३८५।। इत्युदित्वोत्थितः स्थानं, दण्डेनाहत्य तत् तदा । आपृच्छ्य मित्रभार्यां तां, ययौ स्वामी स्वमाश्रयम् ।।३८६।। भव्यानां सुमनोभावं, वसन्त इव भूरुहाम् । ददानो देशतो देशं, विजहार महीतले ।।३८७ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574