Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 553
________________ ५०० . श्रीतिलकाचार्यविरचितटीकायुतम् स सङ्घ मेलयित्वाथ, कार्यादौ स्वजनानिव । उवाच वाचनां दातुं, प्रसादयत मे गुरून् ।।३५९।। महद्भिरेव महतां, यतः कोपोऽपनीयते । । तापः सानुमतां धारा-धरैरेव निवर्त्यते ।।३६० ।। स्थूलभद्रस्य दाक्षिण्यात्, गुरुं सङ्घोऽवदत् प्रभो । दीयतां वाचनामुष्मै, मन्तुर्नः क्षम्यतामयम् ।।३६१।। गुरवोऽदुः श्रुतं यद्व-स्तच्छिष्ये क्वापि रोप्यताम् । स्थूलभद्रेऽपरे वापि, नानृण्यं वोऽन्यथा गुरोः ।।३६२।। " सङ्घनेत्यतिनिर्बन्धा-दुक्तोऽज्ञासीद् गुरुः श्रुतान् । भावी मत्तश्चतुःपूर्व्या, विच्छेदोऽस्या नै किन्त्वतः ।।३६३।। इतस्त्वया चतुःपूर्वी, देया नेयं च कस्यचित् । अनुशिष्येति दत्ते स्म, स्थूलभद्राय वाचनाम् ।।३६४ ।। स्थूलभद्रो बभूवाथ, सचतुर्दशपूर्वभृत् । अथाचार्यपदे न्यस्तः, श्रीभद्रबाहुसूरिभिः ।।३६५।। ' सप्तत्यग्रे गते वर्ष-शते श्रीवीरनिर्वृतेः । भद्रङ्करो भद्रबाहु-र्बभूव त्रिदिवश्रियः ।।३६६ ।। अथाचार्यः स्थूलभद्रः, श्रावस्त्यां विहरन्नगात् । मुनिराजैः परिवृतः, शक्रः सामानिकैरिव ।।३६७ ।। आरामे समवासार्षी-लोकस्तत्राखिलः क्षणात् । . वन्दितुं गुरुमायासी-नन्दितुं मोक्षसद्मनि ।।३६८ ।। प्रभुः श्रीस्थूलभद्रोऽपि, विदधे धर्मदेशनाम् । भव्यानां भावनाभाजां, दत्तसिद्धिप्रवेशनाम् ।।३६९।। स्वामी ज्ञात्वा धनदेवं, प्रियमित्रमनागतम् । दध्यौ ग्लानः प्रोषितो वा. स्नेहलोऽप्यागमन यत ।।३७०।। तद् गच्छामि गृहे तस्य, सोऽनुग्राह्यो विशेषतः । स्वाम्यथो मोहराजेन, कृताह्वान इवाचलत् ।।३७१।। वन्दारूणां सम्मुखानां, मौलिभिर्लोलकुन्तलौ । कदम्बैरिव भृङ्गानां, चुम्ब्यमानपदाम्बुजः ।।३७२ ।। १. पर्वतानाम् १० टि० ।। * त्तु ६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574