Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४९९
श्रीदशवैकालिकसूत्रम् सङ्घस्थितस्तथा साथ, निन्ये मां श्रीजिनान्तिके । दृष्ट: सीमन्धरस्वामी, हर्षोत्कर्षादवन्दिषि ।।३४५।। पृच्छामि स्मात्मशुद्धयर्थं, शुद्धेति प्रभुरादिशत् । नैतत् तवाभवत् पापं, किन्तु सङ्घापमाननात् ।।३४६।। तत्प्रायश्चित्तमादेयं, तत्राचार्यमुखात् त्वया । दत्तेऽस्माभिस्तु तत्रत्य-नृणां स्यात् शुद्धिसंशयः ।।३४७ ।। न हि त्वमिव सर्वोऽपि, लोकोऽत्रागन्तुमीश्वरः । अस्त्वेवं किन्त्विहायातां, तत्र ज्ञास्यन्ति मां कथाम् ? ।।३४८।। ततो भारतसङ्घार्थं, श्रीमान् सीमन्धरः प्रभुः । आर्पयत् प्राभृतमिव, चत्वार्यध्ययनानि मे ।।३४९।। भावना च विमुक्तिश्च, रतिवाक्यमथापरम् । तथा विचित्रचर्यं च, चतुर्णामभिधा इमा ।।३५० ।। सकृदुक्तान्यपि मया, तान्यात्तानि धृतानि च । समर्प्य सङ्घाय तथ्या, तत्राभूद् यन्यवेदि तत् ।।३५१।। आचाराङ्गस्य चूलात्वे, आद्यमध्ययनद्वयम् । दशवैकालिकस्यान्ते, न्यस्तं सङ्घन चापरम् ।।३५२।।
इत्याख्याय स्थूलभद्रं, नत्वागुस्ताः स्वमाश्रयम् । वाचनार्थं स्थूलभद्रो-ऽप्यगमद् गुरुसन्निधौ ।।३५३।। अर्हसि त्वं श्रुतं नेतः, कोशं लुब्धः पुमानिव । वाचनां तन्न दास्यामि, तुभ्यमित्यवदद् गुरुः ।।३५४ ।। आव्रतग्रहणाद् दध्यौ, न स्वमन्तुं विवेद सः । ऊचे गुरून् स्वापराधं, स्मरामि न कमप्यहम् ।।३५५।। गुरुः स्माह मृषा वक्षि, कृत्वाप्यागो न मन्यसे । अथ स्मृत्वापराधं स्वं, गुरूत्रत्वेदमूचिवान् ।।३५६।। नैवं भूयः करिष्यामि, प्रसीदत ममैकदा ।
स्वामिनः सेवकस्यैक-मपराधं सहन्ति यत् ।।३५७।। .. ऊचे गुरु: करिष्यन्ति, त्वमिवान्येऽपि विक्रियाः ।
इतोऽङ्गिनो मन्दसत्त्वा-स्तन्न दास्यामि वाचनाम् ।।३५८ ।। * ०० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574