Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 514
________________ ४६१ श्रीदशवैकालिकसूत्रम् नवकर्मानुपादानरूपः । इत्थं दृढभावः तपसा धुनाति पुराणपापकम् । मनोवाक्कायसंवृतः-संवृता मनोवाक्कायवृत्तिः, यः स भिक्षुः ।। किं चतहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अढे सुए परे च, तं निहे न निहवए स भिक्खू ।।८।। तथैव-पूर्वमुनिवत् । अशनं पानकं वा विविधं खाद्यं स्वाद्यं वा लब्ध्वा । भविष्यति । अर्थ:-प्रयोजनम् । स्वः परस्वो वा । तद्-अशनादि । न निधत्ते । न निधापयति । न निदधानमप्यन्यमनुजानाति । एवं सन्निधित्यागवान्, यः स भिक्षुः ।। तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिय साहम्मियाइं भुंजे, भुया सज्झायरए य जे स भिक्खू ।।९।। तथैव पूर्वार्धं प्राग्वत् । छन्दयित्वा-निमन्त्र्य । साधर्मिकान्-साधून् भुते । भुक्त्वा स्वाध्यायरतश्च यः स भिक्षुः ।। भिक्षुलक्षणाधिकारे एवमाह.. न य वुग्गहियं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमधुवजोगजुत्ते, उवसंते अविहे?ए य जे स भिक्खू ।।१०।। न च वैग्रहिकीम्-कलहप्रतिबद्धाम् । कथां कथयति । न च कुप्यति परस्मै। अस्ति तु निवृत्तेन्द्रियः-अनुद्धतेन्द्रियः । प्रशान्त:-रागादिरहित एवास्ते । संयमे घुवयोगा ये प्रतिलेखनप्रमार्जनादयः तैः युक्तः । उपशान्तः-अनाकुल: । अविहेडकः .. -हेट्टहोट्टअनादरे, न विहेडकः, नानादरवान् साध्वाचारे इति गम्यम् । स भिक्षुः ।। किं च___ जो सहइ हु गामकंटए, अक्कोसपहारतजणाओ य । भयभेरवसदसप्पहासे, समसुहदुक्खसहे य जे स भिक्खू ।।११।। यः खलु सहते । ग्रामा:-इन्द्रियाणि, तेषां दुःखहेतवः कण्टकाः, तान् । आक्रोशान्, प्रहारान्, तर्जनाश्च प्रदेशिन्याः परिभ्रमणम् । भैरवभया:-अत्यन्तरौद्राः, शब्दाः सप्रहासाश्च यस्मिन्, तत्र भयभैरवशब्दसप्रहासे स्थाने-वेतालादिकृतार्तनादाट्टहासे। १. तर्जन्याः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574