________________
४६१
श्रीदशवैकालिकसूत्रम् नवकर्मानुपादानरूपः । इत्थं दृढभावः तपसा धुनाति पुराणपापकम् । मनोवाक्कायसंवृतः-संवृता मनोवाक्कायवृत्तिः, यः स भिक्षुः ।।
किं चतहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अढे सुए परे च, तं निहे न निहवए स भिक्खू ।।८।।
तथैव-पूर्वमुनिवत् । अशनं पानकं वा विविधं खाद्यं स्वाद्यं वा लब्ध्वा । भविष्यति । अर्थ:-प्रयोजनम् । स्वः परस्वो वा । तद्-अशनादि । न निधत्ते । न निधापयति । न निदधानमप्यन्यमनुजानाति । एवं सन्निधित्यागवान्, यः स भिक्षुः ।।
तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिय साहम्मियाइं भुंजे, भुया सज्झायरए य जे स भिक्खू ।।९।।
तथैव पूर्वार्धं प्राग्वत् । छन्दयित्वा-निमन्त्र्य । साधर्मिकान्-साधून् भुते । भुक्त्वा स्वाध्यायरतश्च यः स भिक्षुः ।।
भिक्षुलक्षणाधिकारे एवमाह.. न य वुग्गहियं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते ।
संजमधुवजोगजुत्ते, उवसंते अविहे?ए य जे स भिक्खू ।।१०।।
न च वैग्रहिकीम्-कलहप्रतिबद्धाम् । कथां कथयति । न च कुप्यति परस्मै। अस्ति तु निवृत्तेन्द्रियः-अनुद्धतेन्द्रियः । प्रशान्त:-रागादिरहित एवास्ते । संयमे
घुवयोगा ये प्रतिलेखनप्रमार्जनादयः तैः युक्तः । उपशान्तः-अनाकुल: । अविहेडकः .. -हेट्टहोट्टअनादरे, न विहेडकः, नानादरवान् साध्वाचारे इति गम्यम् । स भिक्षुः ।।
किं च___ जो सहइ हु गामकंटए, अक्कोसपहारतजणाओ य ।
भयभेरवसदसप्पहासे, समसुहदुक्खसहे य जे स भिक्खू ।।११।।
यः खलु सहते । ग्रामा:-इन्द्रियाणि, तेषां दुःखहेतवः कण्टकाः, तान् । आक्रोशान्, प्रहारान्, तर्जनाश्च प्रदेशिन्याः परिभ्रमणम् । भैरवभया:-अत्यन्तरौद्राः, शब्दाः सप्रहासाश्च यस्मिन्, तत्र भयभैरवशब्दसप्रहासे स्थाने-वेतालादिकृतार्तनादाट्टहासे। १. तर्जन्याः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org