________________
४६० . श्रीतिलकाचार्यविरचितटीकायुतम् सञ्चित्तं नाहारयति यः कदाप्यपुष्टालम्बनः स भिक्षुः ।।
औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाहवहणं तसथावराण होइ, पुढविदगकट्ठनिसियाणं । तम्हा उद्देसियं न भुंजे, नो वि पए न पयावए स भिक्खू ।।४।।
वधनम्-हननम् । त्रसस्थावराणाम्-द्वीन्द्रियादिपृथ्व्यादीनां भवति । तथा पृथिवीदककाष्ठनिसृतानाम्-आश्रितानाम् । द्वादशविधौदेशिकारम्भे सति तस्मादौदेशिकं न भुङ्क्ते । तथा न पचति । न पाचयति । पचन्तमपि नान्यमनुजानाति । अनेन न हन्ति, न घातयति, नान्यं नन्तमनुजानाति । न क्रीणाति, न क्रापयति, न क्रीणन्तमनुजानाति । एता नवकोट्यः । एतद्विशुद्धं पिण्डादि गृह्णाति यः स भिक्षुः ।।
किं चरोइय नायपुत्तवयणे अप्पसमे मनिज छप्पि काए । पंच य फासे महव्वयाइं, पंचासवसंवरए य जे स भिक्खू ।।५।।
रोचयित्वा-रुचिं नीत्वा । ज्ञातपुत्रवचनम्-श्रीमहावीरवचः । आत्मसमान्। षडपि कायान्-जीवनिकायान्, पृथिव्यादीन् । मन्यते । पंच च स्पृशति महाव्रतानि । पंचाश्रवसंवृतश्च-कृतपञ्चेन्द्रियसंवरणः, यः, स भिक्षुः ।। ..
किं चचत्तारि वमे सया कसाए, धुवजोगी य हविज बुद्धवयणे । अहणे निजायरूयरयए, गिहिजोगं परिवजए स भिक्खू ।।६।।
चतुरः कषायान् वमति सदा । ध्रुवयोगी-सतताभ्यासी भवति । बुद्धवचने-जिनमते । अधनः-चतुःपदादिरहितः । निर्जातरूपरजत:-निर्गतसुवर्णरौप्यः । गृहियोगम्-गृहस्थसम्पर्कम् । परिः-सर्वथा वर्जयति यः स भिक्षुः ।।
तथासम्मविट्ठी सया अमूढे, अस्थि, हु नाणे तवे य संयमे य । तवसा धुणइ पुराणपावगं, मणवयकायसु संवुडे य जे स भिक्खू ।।७॥
सम्यग्दृष्टिः सदा । अमूढः-अव्यामोहवान्, नास्तिकादिभिरविप्रतारितः । अस्ति ज्ञानम्-अतीन्द्रियविषयमपि । अस्ति तपः-सबाह्याभ्यन्तरम् । अस्ति संयम:- .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org