________________
४६२.
श्रीतिलकाचार्यविरचितटीकायुतम्
एषूपसर्गेषु सत्स्वपि समसुखदुःखः सहश्च यः - अचलितसामयिकभावः । स भिक्षुः ।।
एतदेव स्पष्टयति
पडिमं पडिवज्जिया मसाणे, नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए नियं, न सरीरचाभिकंखई स भिक्खू ।। १२ ।।
1
प्रतिमाम्-कायोत्सर्गाभिग्रहरूपाम् । प्रतिपद्य । स्मशाने न बिभेति भैरवभयानि-रौद्रातङ्ककारीणि । वेतालादिरूपशब्दादीनि दृष्ट्वा । विविधगुणतपोरतश्च नित्यम्गुणाः-मूलोत्तररूपाः, तपः-अनशनादि, तत्र रतः । न शरीरमभिकाङ्क्षति-उपसर्गादिषु सत्स्वपि न शरीरमपेक्षते यः, स भिक्षुः ।।
कि च
असई वोसट्टचत्तदेहे, अकुट्ठे व हए व लूसिए वा । पुढविसमे मुणी हविज्जा, अनियाणे अकोउहल्ले जे स भिक्खू ||१३||
-
असकृत्-सर्वदा । व्युत्सृष्टत्यक्तदेहः - व्युत्सृष्टः- प्रतिबन्धाभावेन, त्यक्तः द्विभूषाद्यकरणेन देहो येन स तथा । आक्रुष्टो वा दुर्वचनैः । हतो वा यष्ट्यादिना । लुषितो वा- तस्कराद्यैरुपध्यपहरणेन श्वशृगालव्याघ्रैः शरीरापहारेण । पृथ्वीसमः सर्वसहो मुनिर्भवति । अनिदानः-भाविफलाशंसारहितः । अकुतूहल:-नटाद्यालोकनादिषु । यः स भिक्षुः ।।
तथा
अभिभूय कण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महाभयं तवे रए सामणिए जे स भिक्खू ।।१४।। अभिभूय - पराजित्य अधिसह्य । परीषहान् क्षुधादीन् । कायेन न मनोवाग्भ्यामेव । समुद्धरति-उत्तारयति । आत्मानम् । जातिपथात्-संसारमार्गात् । विदित्वा । जातिमरणं महाभयम् । तपसि रतः । श्रामण्ये - श्रमणसम्बन्धिनि । यः स भिक्षुः ।।
I
तथा
हत्थसंजए पायसंजए, वायसंजए संजइंदिए ।
अज्झप्परए सुसमाहियप्पा, सुत्तत्थं च वियाणई जे स भिक्खू ।। १५ ।। हस्तसंयतः, पादसंयतः, वाक्संयतः - कारणं विना कूर्मवल्लीनः । संयतेन्द्रियः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org