SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४६३ निर्विषकृतेन्द्रियव्यापारः । अध्यात्मरतः-प्रशस्तध्यानसक्तः । सुसमाहितात्मा । सूत्रार्थं च विजानाति यः स भिक्षुः ।। तथाउवहिमि अमुच्छिए अगिद्धे, अनायउंछं पुलनिप्पुला य । कयविक्कयसंनिहिओ विरए, सव्वसंगावगए य जे स भिक्खू ।।१६।। उपधौ-वस्त्रादिरूपे । अमूर्छितः-तत्र मोहत्यागेन । अगृद्धः-अनाकाङ्क्षी । अज्ञातोञ्छं चरति, अज्ञातोञ्छमिव अज्ञातोञ्छम्-यथा अज्ञातोञ्छम् अल्पं भवति तथा उपधिमप्यगृद्धः, स्तोकं स्तोकं, भावशुद्ध धर्मार्थितया दत्तं गृह्णाति यः सोऽज्ञातोञ्छचारी । तथा पुल-समुच्छ्रये, पुलतीति पुलः, अगृद्धत्वाच्चारित्रे समुच्छ्रितः, प्राकृतत्वाद्विभक्तिलोपः । निःपुलाक:-संयमासारतापादकदोषरहितः । क्रयविक्रयसनिधिभ्यो विरतः । सर्वसङ्गापगतश्च यः । स भिक्षुः ।। किं चअलोलभिक्खू न रसेसु गिद्धे, उंछंचरे जीविय नावकंखे । इड्डिं च सक्कारणपूयणं च, चरे ठियप्पा अणिहे स भिक्खू ।।१७।। अलोल:-नाप्राप्तप्रार्थकः, भिक्षुः-साधुः, अलोलश्चासौ भिक्षुश्च अलोलभिक्षुः । न रसेषु । गृद्धः-आसक्तः । उञ्छं चरति । आह-प्रागप्येतदुक्तम् ? -सत्यम् । प्रागुपधिमधिकृत्योक्तम् । इह त्वाहारमिति न पौनरुक्तव्यम् । ... जीवितम्-असंयमजीवितम् । नावकाङ्क्षति । ऋद्धिं च-आमोषध्यादिकाम् । सत्कारणं च-वस्त्रादिभिः । पूजनं च-स्तवनादिना । त्यजति-न तदर्थमेव यतते । स्थितात्मा-ज्ञानादिषु । अनीहो यः स भिक्षुः ।। तथान परं वइजासि अयं कुसीले, जेणं न कुप्पिज न तं वइज्जा । जाणिय पत्तेय पुनपावं, अत्ताणं न समुक्कसे जे स भिक्खू ।।१८।। न । परम्-स्वशिष्यादन्यम् । वदत्ययं कुशील इति-तदप्रीतिसम्भवात्, स्वशिष्यं तु शिक्षाबुद्धया वदत्यपि । येन न अन्यः कुप्यति । तम्-सन्तमपि तद्दोषम् । न वदति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy