________________
४६४ श्रीतिलकाचार्यविरचितटीकायुतम् । किमित्यत आह । ज्ञात्वा प्रत्येकं पुण्यपापम्-न ह्यन्यसम्बन्ध्यन्यस्य लगति । सत्स्वपि च गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमुद्वहति । यः स भिक्षुः ।।
मदप्रतिषेधमाहन जाइमत्ते न रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवजयंतो, धम्मज्झाणरए य जे स भिक्खू ।।१९।।
स्पष्टम् । पवेयए अजवयं महामुणी, धम्मे ठिओ ठावई परं पि । निक्खम्म वजिज कुसीललिंग, न यावि हासकुहए य जे स भिक्खू ।।२०।।
प्रवेदयति-कथयति । आर्यपदम्-शुद्धधर्मपदम् । महामुनिः धर्मे स्थितः । स्थापयति । परमपि-श्रोतारम् । निःक्रम्य वर्जयति । कुशीललिङ्गम्-कुशीलचेष्टितम्,
आरम्भादि । न चापि हास्यकुहकः-हास्यकारी, कुहकम्-इन्द्रजालं यस्य स, तथा एवंविधो न, यः स भिक्षुः ।।
भिक्षुभावफलमाहतं देहवासं असुइं असासयं, सया चए निश्चहियट्ठियप्पा । . छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई गय
त्ति बेमि ।।२१।। . तं देहवासम् । अशुचिम्-शुक्रशोणितोद्भवत्वात् । अशाश्वतम्-प्रतिक्षणं नवनवपर्यायसम्भवात् । सदा त्यजति-ममत्वत्यागेन । नित्यहिते-मोक्षसाधने । सम्यग्दर्शनादौ स्थितात्मासु स्थितः । च्छित्वा जातिमरणबन्धनम्-कर्मजालम् । उपैति भिक्षुः । अपुनरागमाम्-जन्मादिरहिताम् । गतिम्-सिद्धिगतिम् । गत इति ब्रवीमीति पूर्ववत् ।।
॥ सभिश्वध्ययनटीका समाप्ता ।। ॥ तत्समाप्तौ समाप्ता श्रीश्रीतिलकाचार्यविरचिता दशवैकालिक
श्रुतस्कन्धटीका ॥
Jain Education International
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org