Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 513
________________ ४६० . श्रीतिलकाचार्यविरचितटीकायुतम् सञ्चित्तं नाहारयति यः कदाप्यपुष्टालम्बनः स भिक्षुः ।। औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाहवहणं तसथावराण होइ, पुढविदगकट्ठनिसियाणं । तम्हा उद्देसियं न भुंजे, नो वि पए न पयावए स भिक्खू ।।४।। वधनम्-हननम् । त्रसस्थावराणाम्-द्वीन्द्रियादिपृथ्व्यादीनां भवति । तथा पृथिवीदककाष्ठनिसृतानाम्-आश्रितानाम् । द्वादशविधौदेशिकारम्भे सति तस्मादौदेशिकं न भुङ्क्ते । तथा न पचति । न पाचयति । पचन्तमपि नान्यमनुजानाति । अनेन न हन्ति, न घातयति, नान्यं नन्तमनुजानाति । न क्रीणाति, न क्रापयति, न क्रीणन्तमनुजानाति । एता नवकोट्यः । एतद्विशुद्धं पिण्डादि गृह्णाति यः स भिक्षुः ।। किं चरोइय नायपुत्तवयणे अप्पसमे मनिज छप्पि काए । पंच य फासे महव्वयाइं, पंचासवसंवरए य जे स भिक्खू ।।५।। रोचयित्वा-रुचिं नीत्वा । ज्ञातपुत्रवचनम्-श्रीमहावीरवचः । आत्मसमान्। षडपि कायान्-जीवनिकायान्, पृथिव्यादीन् । मन्यते । पंच च स्पृशति महाव्रतानि । पंचाश्रवसंवृतश्च-कृतपञ्चेन्द्रियसंवरणः, यः, स भिक्षुः ।। .. किं चचत्तारि वमे सया कसाए, धुवजोगी य हविज बुद्धवयणे । अहणे निजायरूयरयए, गिहिजोगं परिवजए स भिक्खू ।।६।। चतुरः कषायान् वमति सदा । ध्रुवयोगी-सतताभ्यासी भवति । बुद्धवचने-जिनमते । अधनः-चतुःपदादिरहितः । निर्जातरूपरजत:-निर्गतसुवर्णरौप्यः । गृहियोगम्-गृहस्थसम्पर्कम् । परिः-सर्वथा वर्जयति यः स भिक्षुः ।। तथासम्मविट्ठी सया अमूढे, अस्थि, हु नाणे तवे य संयमे य । तवसा धुणइ पुराणपावगं, मणवयकायसु संवुडे य जे स भिक्खू ।।७॥ सम्यग्दृष्टिः सदा । अमूढः-अव्यामोहवान्, नास्तिकादिभिरविप्रतारितः । अस्ति ज्ञानम्-अतीन्द्रियविषयमपि । अस्ति तपः-सबाह्याभ्यन्तरम् । अस्ति संयम:- . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574