Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 529
________________ ४७६ श्रीतिलकाचार्यविरचितटीकायुतम् वर्तते मन्त्रिगेहे किं ?, साचीकथद् यथातथम् । भोक्ष्यते भूपतिर्नन्दः, श्रीयकस्य करग्रहे ।।५।। ततस्तत्प्राभृतकृते, सज्यते हेतिसंहतिः । घट्यन्ते स्वर्णकारैश्च, दिव्यान्याभरणानि च ।।५२।। तदेव च्छलमासाद्य, सद्यो वररुचिस्ततः । दत्वा सुखादिकां मार्गे, बालकानित्यपाठयत् ।।५३।। तन्न जानाति लोको यत्, शकटाल: करिष्यति । नन्दं व्यापाद्य तद्राज्ये, श्रीयकं स्थापयिष्यति ।।५४।। डिम्भाः सर्वत्र खेलन्तः पठन्ति पथि पथ्यऽतः । राजपाटीगतो राजा-श्रौषीत् तान् पाठतोऽर्भकान् ।।५।। बालका यञ्च जल्पन्ति, यञ्च जल्पन्ति योषितः । औत्पातिकी च या भाषा, सा भवत्यन्यथा न हि ।।५६।। तद्ज्ञातुं मन्त्रिगेहेऽथ, प्रेषयत् पुरुषं नृपः । यथेक्षितं क्षितिपतेः, स विज्ञाय व्यजिज्ञपत् ।।५७।। अथामात्यस्य सेवार्थ-मेयुषो नमतः सतः । ' क्रुद्धं दैवमिव क्रोधाद्, राजाजनि पराङ्मुखः ।।५८ ।। मन्त्री मत्वा नृपं क्रुद्धं, वेश्मैत्य श्रीयकं जगौ । वैरीव वैरिणे वाहं, राज्ञोऽज्ञाप्यऽङ्ग ! केनचित् ।।५९।। अकालेऽपि हि कालो न, कुलस्यायमुपागमत् । मदीयादेशमन्त्रेण, कुलरक्षामहो ! कुरु ।।६०।। अद्यस्वीनोऽस्ति मे मृत्यु-र्जराजर्जरताजुषः । करवालेन मे मौलिं, च्छिन्द्यास्तन्नमतो नृपम् ।।१।। श्रीयकोऽथ रुदनूचे, रुद्धकण्ठः सगद्गदः । चण्डालोऽपि करोत्येवं, तात ! किं तातघातनम् ?।।६२।। मुखे विषं तालपुटं, न्यस्य नस्याम्यहं नृपम् । मृतस्य मारणे न स्यात्, पितृहत्यापि पुत्र ! ते ।।६३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574