________________
४७६ श्रीतिलकाचार्यविरचितटीकायुतम्
वर्तते मन्त्रिगेहे किं ?, साचीकथद् यथातथम् । भोक्ष्यते भूपतिर्नन्दः, श्रीयकस्य करग्रहे ।।५।। ततस्तत्प्राभृतकृते, सज्यते हेतिसंहतिः । घट्यन्ते स्वर्णकारैश्च, दिव्यान्याभरणानि च ।।५२।। तदेव च्छलमासाद्य, सद्यो वररुचिस्ततः । दत्वा सुखादिकां मार्गे, बालकानित्यपाठयत् ।।५३।। तन्न जानाति लोको यत्, शकटाल: करिष्यति । नन्दं व्यापाद्य तद्राज्ये, श्रीयकं स्थापयिष्यति ।।५४।। डिम्भाः सर्वत्र खेलन्तः पठन्ति पथि पथ्यऽतः । राजपाटीगतो राजा-श्रौषीत् तान् पाठतोऽर्भकान् ।।५।। बालका यञ्च जल्पन्ति, यञ्च जल्पन्ति योषितः । औत्पातिकी च या भाषा, सा भवत्यन्यथा न हि ।।५६।। तद्ज्ञातुं मन्त्रिगेहेऽथ, प्रेषयत् पुरुषं नृपः । यथेक्षितं क्षितिपतेः, स विज्ञाय व्यजिज्ञपत् ।।५७।।
अथामात्यस्य सेवार्थ-मेयुषो नमतः सतः । ' क्रुद्धं दैवमिव क्रोधाद्, राजाजनि पराङ्मुखः ।।५८ ।। मन्त्री मत्वा नृपं क्रुद्धं, वेश्मैत्य श्रीयकं जगौ । वैरीव वैरिणे वाहं, राज्ञोऽज्ञाप्यऽङ्ग ! केनचित् ।।५९।। अकालेऽपि हि कालो न, कुलस्यायमुपागमत् । मदीयादेशमन्त्रेण, कुलरक्षामहो ! कुरु ।।६०।। अद्यस्वीनोऽस्ति मे मृत्यु-र्जराजर्जरताजुषः । करवालेन मे मौलिं, च्छिन्द्यास्तन्नमतो नृपम् ।।१।। श्रीयकोऽथ रुदनूचे, रुद्धकण्ठः सगद्गदः । चण्डालोऽपि करोत्येवं, तात ! किं तातघातनम् ?।।६२।। मुखे विषं तालपुटं, न्यस्य नस्याम्यहं नृपम् । मृतस्य मारणे न स्यात्, पितृहत्यापि पुत्र ! ते ।।६३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org