________________
४७५
श्रीदशवैकालिकसूत्रम् दीनारग्रन्थिमादाय, तस्य ब्रह्मस्ववञ्चरः । प्रच्छन्नमार्पयद् गत्वा, न्यासवत् सचिवाय सः ।।३८।। प्रातरादाय दीनार-ग्रन्थिं याति स्म मन्त्रिराट् । राज्ञा सह करिस्कन्धा-धिरूढः स्वधुनीतटे ।।३९ ।। गङ्गां वररुचेर्दानं, ददानां द्रष्टुमुत्सुकः । कौतुकात् पौरलोकोऽपि, तदानीममिलद् बहुः ।।४०।। राजादिकान् वररुचिः, दृष्ट्वा द्रष्टुमुपागतान् । तुष्टाव स्पष्टया वाचा, प्रौढमानी विमूढधीः ।।४१।। स्तुतिं कुत्वांहिणा यन्त्रे, चालितेऽपि न तत्करे । दीनारग्रन्थिरारोहद्, ग्रन्थिस्तु हृदयेऽचटत् ।।४२।। अथाकुल: पाणिमथा, जलं तत्र व्यालोडयत् । न द्रव्यनवनीतं तत्, प्रापि किन्तु विलक्षता ।।४३।। अथोचे मन्त्रिराट् विद्वन् !, दत्ते गङ्गा न तेऽद्य किम् ? । दानमस्तु भवन्यस्त-मपि स्वमनया हृतम् ।।४४ ।। यच्छाम्यहं गृहाणेद-मुपलक्षय तन्नवा । मन्त्रीत्युक्त्वा वररुचे-र्दीनारग्रन्थिमार्पयत् ।।४५।। दीनारग्रन्थिना तेन, दम्भग्रन्थिर्जनेऽखिले । प्रादुर्भूतस्ततः सोऽभूत्, तिरोभूतः स्वकर्मणा ।।४६।। आख्यत् तत्क्ष्मापतेर्मन्त्री, देव ! वञ्चयितुं जनम् । न्यस्यत्यत्र रह: सायं, द्रव्यं गृह्णात्यसौ प्रगे ।।४७।। सुप्रयुक्तोऽपि दम्भोऽयं, यत्त्वयाज्ञायि धीसखः । तत्त्वमेवासि धीमानि-त्यालपन् धाम्न्यगानृपः ।।४८।।
वैरायमाणोऽमात्येना-रुचिर्वररुचिस्ततः । अधीतशाकिनीमन्त्र-वन्मन्त्रिच्छलमीक्षते ।।४९।। एकदा मन्त्रिणश्चेटी, दृष्टा गृहविनिर्गता ।
अथोपचर्य किञ्चित् तां, पृष्टवान् कत्यनन्दनः ।।५०।। १. दूरेऽस्तु १० टि० ।। * क्षमाप० ६-१० ।। . ०का० ६-१० ।। २. वररुचिः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org