________________
४७४ श्रीतिलकाचार्यविरचितटीकायुतम्
नव्यैः काव्यैरहं भव्यैः, स्तवीमीति ममाग्रतः । किमसत्यं वदत्येष, राजा मन्त्रिणमूचिवान् ।।२५।। मन्त्र्यूचे देव ! वः प्रात-रनेन पठितान्यहम् । पाठयिष्यामि पुत्र्यः स्वा-स्तदैवान्यत् किमुच्यते ?।।२६।। सप्ताऽऽसन् मन्त्रिणः पुत्र्यः, एकद्वित्र्यादिसंस्तवाः ।। यथाज्येष्ठं महाप्राज्ञाः, पीयूषमधुरस्वराः ।।२७।। यक्षाद्या यक्षदत्तान्या, भूताथ भूतदत्तिका । एणा वेणा च रेणेति, सप्तरूपेव भारती ।।२८।। . उपराजं द्वितीयेऽह्नि, नीत्वा मन्त्रिवरेण ताः । ब्राह्मयाद्या मातर इव, स्थाप्यन्ते स्म पटान्तरे ।।२९।। पपाठाष्टोत्तरशतं, श्लोकान् वररुचिर्नवान् । यथाज्येष्ठं पठन्ति स्म, पुत्र्यस्तास्तदनन्तरम् ।।३०।। .
अथारुचिर्वररुचौ, दानरोधं व्यधान्नृपः । मन्त्रिणो हि विषाण्यारो-पयन्त्युत्तारयन्ति च ।।३१।। ततो वररुचिर्गङ्गा-जले यन्त्रममण्डयत् । दीनाराष्टशतं तत्र, पुष्पपूजादिवन्यधात् ।।३।। गङ्गादेवीं प्रगे स्तुत्वा, यन्त्रे तेनांहिचालिते । निर्माल्यमिव दीनाराः, पतत्युत्पत्य तत्करे ।।३३।। चक्रे चैवं सदा दम्भं, लोकस्तेनैष विस्मितः । तञ्चाकर्ण्य जनाद् राजा, मन्त्रिणस्तदचीकथत् ।।३४ ।। मन्त्र्यूचे सत्यमेतञ्जेद्, रक्ष्यते स्वः स्वयं ततः । राजाप्यमस्त तस्योक्तं, युक्तं को वा न मन्यते ? ।।३५।। अनुशिष्य चरं प्रेषीत्, प्रदोषे तत्र मन्त्रिराट् । चरस्तटवने गत्वा, कूर्मवनिश्चलस्थितः ।।३६।। गत्वा सुधीस्तदाच्छन्न-मारोप्य स्वधुनीजले ।
दीनारग्रन्थिमुत्खात-शालिवद् गतवान् गृहे ।।३७।। १. प्रतिरोपित० १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org