________________
४७३
श्रीदशवैकालिकसूत्रम् आसीद् वररुचिस्तत्र, विद्वान् द्विजमतल्लिका । कुशलः सर्वविद्यासु, पुंरूपेव सरस्वती ।।१२।। स्वोपज्ञानां नव्यभव्य--काव्यानां स महीपतिम् । अष्टोत्तरशतेनाऽस्तौद्, वनायन् प्रत्यहं सुधीः ।।१३।। सम्यक्त्वं मातिचारीन्मे, शंसन् मन्त्री न तं ततः । रञ्जितोऽपि नृपः काव्य-र्न दत्तेऽमात्यमीक्षते ।।१४ ।। अदानकारणं ज्ञात्वा, दक्षो विद्वानपीङ्गितान् । आवर्जयितुमारेभे, मन्त्रिपत्नी नवैः स्तवैः ।।१५।। तयोपरुद्धयान्येद्युः, पृष्टः कार्यमदोऽवदत् । अग्रे नृपं श्लाघतां मे, काव्येभ्यस्तव वल्लभः ।।१६।। अथैकान्ते तया मन्त्री, विज्ञप्तस्तत्प्रशस्तये । निरतीचारसम्यक्त्वो, मन्त्र्यवोचत हे प्रिये ! ।।१७।। श्लाघा मिथ्यादृशोऽल्पापि, सम्यक्त्वस्यातिचारकृत् । अलं क्षीरविनाशाय, न सौवीरच्छटापि किम् ? ॥१८॥ तयाथात्याग्रहेणोक्तो, धीसखः स्वीचकार तत् । किं न कुर्यात् ? किं न दद्यात् ?, स्त्रीभिरभ्यर्थितो नरः ।।१९।। __ अथापरेधुस्तत्काव्य-श्रुतौ राजावलोकितः । स्वामिन् ! सुभाषितमिति, मन्त्री गिरमुदाहरत् ।।२०।। दीनाराष्टशतं तस्मै, राजादान्मन्त्रिगीःश्रुतेः । महामन्त्री यतो राज्ञा-मलोहमयमङ्कुशम् ।।२१॥ प्रत्यहं दीयमाने च, दीनाराष्टशते नृपम् । मन्त्री विज्ञपयामास, कोऽयं कोशक्षयो वृथा ।।२२।। .. राज्ञोचे त्वगिरा कुर्मः, कूर्मवत् त्वं यतोऽसि नः । सर्वस्या अपि काश्यप्या, आधारोऽमात्यनिश्चलः ।।२३।। मन्त्र्यूचेऽसौ परोक्तानि, काव्यान्यग्रेऽपठत् प्रभोः । सुक्तानीति मया तानि, वर्ण्यन्ते स्म जगत्पतेः ।।२४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org