________________
४७२ श्रीतिलकाचार्यविरचितटीकायुतम्
॥चूलिकाप्राप्तिकथा ।। इदानी दशवैकालिकश्रुतस्कन्धस्य पर्यन्ते पठ्यमानं चूलिकाद्वयं व्याख्यास्यते तञ्च केन विनिर्मितं ? कथमत्र पठ्यते ? इति स्वरूपनिरूपणार्थं तदीयः कथाप्रबन्धोऽभिधीयते । तथा हि
नगरं पाटलिपुत्र-मस्ति पाटलिपुष्पवत् । । सुवर्णाढ्यं सुपत्रं च, चित्रं न जडवासनम् ।।१।। वितीर्णजगदानन्दो, नन्दोऽभूत् तत्र भूपतिः । ब्रह्माण्डं यद्यशोम्भोधि-मध्ये पातालकुम्भति ।।२।। चकासे तत्कृपाणान्तः, पुष्कलापुष्करावलिः । प्रशस्तिरिव विन्यस्ता, प्राजितानां महीभृताम् ।।३।। सङ्कटोरस्तटो धीभिः, शकटालोऽस्य धीसखः । अचक्रचलनो राज्य-लक्ष्मीक्रीडारथोऽभवत् ।।४।। अकृत्वा कटकारम्भं, बुद्धीरपि नियोज्य यः । , सार्वभौमं विभुं चक्रे, ग्राहयित्वाखिलां भुवम् ।।५।। कान्ता लक्ष्मीवती तस्य, धर्मकार्येषु योजनात् । मन्ये गतिं प्रापयितुं, पञ्ची पञ्चमीव धीः ।।६।। सुतस्तयोरभूज्ज्येष्ठः, श्रेष्ठः श्रेष्ठनरेषु यः । स्थूलभद्रः स्थूलभद्रो, भद्रकरणदर्शनः ।।७।। . सँवृत्तः क्रौमुदं तन्वन्, कलावान् श्रीयकोऽनुजः । यो नन्दं नन्दयामास, समुद्रमिव चन्द्रमाः ।।८।। भाग्यसौभाग्यकोशाभूत्, कोशा तत्र पणाङ्गना । यस्याः सरूपा, रूपेण, न काचित् त्रिजगत्यपि ।।९।। स्थूलभद्रस्तदावासे, द्वादशाब्दानि तस्थिवान् । गङ्गयेवोऽऽर्षभिर्वर्ष-सहस्रं भोगतत्परः ।।१०।। चक्रे क्ष्माचक्रशक्रश्च, श्रीयकं स्वाङ्गरक्षकम् ।
विश्वस्तो मन्यमानस्तं, मूर्त्यन्तरमिवात्मनः ।।११।। * चित्रं सुवर्णाढ्यमपि सर्वदाजड० २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। १. चेष्टां करोति १० टि० ।। २. सर्वस्या भूमेरीश्वरः १० टि० ।। * कनिष्ठोऽप्यकनिष्ठोऽभूद्, गुणाढ्यैः श्रीयकः सुतः २.६-१० अयं मूलपाठः १० टिप्पण्यामपि ।। ३. भरतचक्री १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org