________________
श्रीदशवैकालिकसूत्रम्
४७१ तस्मिन् विकाले, स्थापितानि-न्यस्तानि । यतः तस्माद्दशवैकालिकं नाम-व्युत्पत्तिः, विकाले निर्वृत्तं वैकालिकं तेन निवृत्त इतीकण् । वृद्धौ वैकालिकम्, दशाध्ययननिर्माणं च तद् वैकालिकं च दशवैकालिकम् । आत्मप्रवादपूर्वाद् धर्मप्रज्ञप्तिः षड्जीवनिकायिका। कर्मप्रवादपूर्वात् पिण्डेषणाध्ययनम् । सत्यप्रवादपूर्वाद् वाक्यशुद्धयध्ययनम् । प्रथमद्वितीयादीनि नवमस्य प्रत्याख्यानपूर्वस्य तृतीयवस्तुत उद्धृत्य निहितानि ।।
छहिं मासेहिं अहीयं, अज्झयणमिणं तु अजमणगेण । छम्मासापरियाओ, अह कालगओ समाहीए ।।१।।
षड्भिर्मासैरधीतम् अध्ययनमिदम्-दशवैकालिकाख्यम् । आर्यमणकेन-आराद् यतः सर्वहेयधर्मेभ्य इत्यार्यः, आर्यश्चासौ मणकश्चेति समासः । षण्मासपर्याय:-षण्मासा एवास्य प्रव्रज्याकालः । अथ कालगतः समाधिना ।।
आणंदअंसुपायं, काही सिजंभवा तहिं थेरा ।। जसभहस्स य पुच्छा, कहणा य वियारणा संघे ॥१॥
आनन्दाश्रुपातम्-अहो ! आराधितमनेनेति हर्षाश्रुमोक्षणम् । अकार्षुः । शय्यम्भवाः । स्थविरा:-श्रुतपर्यायवृद्धाः, प्रवचनगुरवः, पूज्यार्थं बहुवचनम् । यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य । गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य पृच्छाभगवन् ! किमेतदकृतपूर्वमित्येवम्भूता । कथना च-भगवतः संसारस्नेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुतापश्च, यशोभद्रादीनामहो ! गुराविव गुरुपुत्रे वर्तितव्यमिति न तत् कृतमस्माभिरित्येवम्भूतः । गुरुराह प्रतिबन्धपरिहारार्थं न मया कथितं, नात्र भवतां दोषः । पुनः सङ्घ प्रत्याह-अल्पायुषं मनकक्षुल्लकमवेत्य मयेदं शास्त्रं नियूहितम्पूर्वेभ्यः समुद्धृतम् । तदिदानी गोप्यतामवस्थाप्यतां वेति सङ्घः कथयतु । ततो विचारणा सङ्घ-विचारणापूर्वं सङ्घघः कथयति स्म कालह्रासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतत् । ततः सूरयः श्रुतोपयोगेन ज्ञात्वा स्माहुः । अङ्गोपाङ्गादीनि श्रुतानि दुःषमानुभावात् क्रमशः क्रमशस्तुटिष्यन्ति । इदमेव दशवैकालिकं जीतकल्पश्च दुःप्रसभाचार्यं यावद् यास्यतः । एतावतैव श्रुतेन स युगप्रधानः, श्रुतधरो भविष्यति । ततोऽस्मादेव कारणात् । युष्मद्वचनाञ्च शिष्यप्रशिष्यौ पठ्यमानमिदमस्त्विति। * सर्वेभ्यः २, ६-१० ।। । स्वल्पप्रतिभादो० २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org