________________
श्रीतिलकाचार्यविरचितटीकायुतम्
कस्य पुत्रोऽसि पुत्र ! त्वं ?, श्रीराजगृहपत्तने । सोऽवक् तत्र द्विजः शय्य-म्भवोऽभूत् तत्सुतोऽस्म्यहम् ।।६१।। स च प्रव्रजितः सूरि-रूचे त्वं किमिहागमः । सोऽवदत् प्रव्रजिष्यामि, तत्पार्श्वेऽहमपि प्रभो ! ।।६२।। तत्किं जानीथ तं यूय-मूचुस्ते विद्म एव तम् ।
स
मे मित्रं सोऽहमेव, न शरीरात् पृथक् स मे ।।६३ ।। तत्त्वं प्रव्रज मत्पार्श्वे, सोऽभ्यधादेवमस्त्विति । आलोचयन्ति सच्चित्त-लाभं तेऽथाश्रयागताः । । ६४ ।।
४७०
ततः प्रव्राज्य तं पश्चा-दुपायुज्यन्त सूरयः । कियज्जीवत्ययं बालो, यावन् मासा भवन्ति षट् । । ६५ ।। अथैवं दध्युराचार्याः, षड्भिर्मासैः श्रुतं कियत् । पठिष्यति क्षुल्लकोऽयं, स्यात्, तत्कास्येह निर्जरा ।। ६६ ।। कार्ये निर्यूहयत्येव, स्याच्चतुर्दशपूर्व्यपि । निर्यूहयत्यवश्यं च, दशपूर्वी त्वपश्चिमः ।। ६७ ।। ममापि कार्यमुत्पन्नं, तदस्यार्थे श्रुतोदधिः । किञ्चिन्निर्यूहयिष्यामि, सारमुद्धृत्य सम्प्रति ।।६८।। निर्यूहयितुमारेभे ततो दिनमुखादपि । दशनिर्यूहयामास, विकालेऽध्यनानि सः । । ६९ ।। दशवैकालिकं तेन, तद्दशाध्ययनीयं ।
पाठार्थं मनकस्याभूत्, सिद्धान्ताराधना कृता ।। ७० ।। अमुमेवार्थमाह निर्युक्तिकारः
मणगं पडु सिद्धं भवेण निज्जूहिया दशज्झयणा । वेआलियाइ ठवियं, तम्हा दशकालियं नाम ।।
W
मनकं प्रतीत्य-मनकाख्यमपत्यमाश्रित्य । शय्यम्भवेन आचार्येण । निर्यूहितानिपूर्वगतात् श्रुतादुद्धृत्य विरचितानि । दशाध्ययनानि - द्रुमपुष्पिकादीनि । वेयालियाइ ठवियन्ति-विगतः कालो-विकालः, विकालनं वा विकालः-पाश्चात्यदिनघटिकाद्वयरूपः, ।। पौत्रो वा त्वं राज० २.६- १० ।। १. विरचनम् १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org