________________
४६९
श्रीदशवैकालिकसूत्रम् ततश्च समये प्राप्ते, वर्षा इव घनाघनम् । तनयं जनयामास, सा स्वचित्ताब्जभास्करम् ।।४८।। अथोचे स्वजनैरस्या, आशातन्तुसुतोऽभवत् । द्वादशेऽह्नि ततस्तस्य, सुतस्योत्सवपूर्वकम् ।।४९।। कथितं पृष्टया मात्रा, मनागस्तीति यत्पुरा । ततो मनक इत्यस्या-भिधानं ददति स्म ते ।।५०।। मातुर्मनोरथैः सार्धं, वर्धमानः स दारकः । जातोऽष्टवार्षिकोऽप्राक्षीन्, मातरं कुत्र मे पिता ? ।।५१।। सावदद् वत्स ते वप्ता, जग्राह व्रतमार्हतम् । ततो नंष्ट्वा प्रतस्थे स, गन्तुं स्वपितुरन्तिके ।।५२।।
इतश्च गुरुभिर्ज्ञात्वा, सर्वसूरिगुणान्वितः । स्थापितः स्वपदे शय्य-म्भवो भवभयापहृत् ।।५३।। स्वयं देवान् गुरून् नत्वा, स्मृत्वा पञ्चनमस्कृतिम् । क्षमयित्वा जगज्जन्तून्, गुरवत्रिदिवं ययुः ।।५४।।
अथ शय्यम्भवः सूरिः, सहस्रांशुरिवोदितः । जगाम विहरंश्चम्पां, भव्याब्जानि विकाशयन् ।।५।। दारकः सोऽपि चम्पायां, गतपुण्यैरिवेरितः । आचार्यैरपि संज्ञाभू-गतैदृष्टस्तदैव सः ।।५६।। आचार्या वन्दितास्तेन, पश्यन्तस्तेऽपि तं सुतम् । पूरिताः स्नेहपूरेण, चढूंषि ज्ञानवन्ति यत् ।।५७ ।। नेत्राण्येतानि जन्मान्य-दपि लोके स्मरन्ति हि । विकसन्ति प्रिये दृष्टे, मुकुलन्त्यप्रिये पुनः ।।५८ ।। पश्यतो दारकस्यापि, स्नेहोऽभूत् तान् गुरून् प्रति । एवमन्योन्यसम्बन्धः, स्नेहेनावेदितस्तयोः ।।५९।। पृष्टोऽथ गुरुभिर्भोस्त्व-मागतोऽसि कुतः सुतः ? ।
सोचे राजगृहादागा-माचार्यः पुनरोच्यत ।।६०।। १. शिशुः १०. टि०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org