________________
४७७
श्रीदशवैकालिकसूत्रम् तं तथा पितुरादेशं, स्वीचकार चकार च ।
आः ! किमेतत् त्वया चक्रे, क्षमाशक्रः स्माह सम्भ्रमात् ।।६४ ।। श्रीयकोऽप्याह नायुक्तं, स्वाम्यभक्तस्य घातनम् ? । देवसेवाकृतां कृत्यं, नान्यत् स्वाम्यनुवर्तनात् ।।६५।।
अथौर्ध्वदेहिके वप्तः, कृते शोकापनोदके । उवाच श्रीयकं राजा, पितुः पदमलङ्कुरु ।।६।। श्रीयकः प्रणिपत्याथ, पृथ्वीनाथं व्यजिज्ञपत् । देवाऽस्ति स्थूलभद्रो. मे, जिष्णुर्विष्णोरिवाग्रजः ।।६७।। कोशागारे कामकोशा-गारे तात ! प्रसादतः । भुञ्जानस्य पैरान् भोगान्, द्वादशाब्दी प्रभोऽभवत् ।।६८।। राज्ञाहूतः स्थूलभद्रो, राजास्थानमुपागतः । ननाम भूतं सोऽप्यूचे, पितुर्मुद्रामुरीकुरु ।।६९।। स्थूलभद्रोऽबदत् मुद्रा, देवालोच्य ग्रहीष्यते । आलोचयाशोकवनी, गत्वा तमुधुनैव भोः ! ।।७।। गत्वा तत्र महासत्त्वो लग्नश्चिन्तयितुं हृदि । एष नन्दनृपादेशः, शून्यं चैतत् तथासनम् ।।७१।। पितुः स्वर्गतिमाख्याति, धिग् मे विषयमूढताम् । नाज्ञासिषं पितुर्मृत्यु-मपि कामवशंवदः ।।७२।। तथाइहलोकसुखा भोगाः, परलोकसुखं तपः । उभयभ्रंशकृन्मुद्रा, कार्यं किमनया ततः ।।७३।।
तथा
मुद्रेयं खलु पारवश्यजननी, सौख्यच्छिदे देहिनां, नित्यं कर्कशकर्मबन्धनकरी, धर्मान्तरायावहा । राजार्थंकपरैव सम्प्रति पुनः, स्वार्थप्रजार्थापहत्, तद् ब्रूमः किमतः परं मतिमतां, लोकद्वयापायकृत् ।।७४ ।। शार्दूलविक्रीडितम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org