________________
४७८ श्रीतिलकाचार्यविरचितटीकायुतम्
इत्येवं विहितालोचः, कृतलोचश्च मूर्धनि । कृत्वा रजोहृतिं रत्न-कम्बलस्य दशाङ्करैः ।।७५ ।। अथ गत्वा स आस्थान-मिति राजानमूचिवान् । मनसा लोचितमिदं, धर्मलाभोऽस्तु तेऽधुना ।।७६।।
राजोचे स्थूलभद्राय, महान् भारोऽस्त्यूरीकृतः । सुगृहीतममुं कुर्याः, सत्यसन्धा हि साधवः ।।७७।।। राज्ञेत्युक्तस्तदास्थानात्, सिंहवद् गिरिकन्दरात् । . निरगाद् भवमातङ्ग-निर्मन्थनमनोरथः ।।७८।। किमेष वेषमादाय, शाव्यात् कोशागृहं गमी । इति ज्ञातुमभिप्रायं, प्रासादात् प्रेक्षते नृपः ।।७९।। आक्रोशेन न दूयते न च चटु-प्रोक्त्या स मा नन्द्यते, दुर्गन्धेन न बाध्यते न च सदा, मोदेन सम्प्रीयते । स्त्रीरूपेण न रज्यते न च मृत-श्वानेन विद्वेष्यते, ' माध्यस्थ्येन विराजितो विजयते, कोप्येष योगीश्वरः ।।८।। शार्दूलविक्रीडितम् वैरङ्गिकमनोवृत्ति-त्विा तं चेष्टया नृपः । . दध्यौ जन्मान्तरमिव, प्राप्तोऽयमिति मन्यते ।।८१।। श्रीसम्भूतगुरोः पार्श्वे, गत्वा शिष्योऽथ सोऽभवत् । अद्यापि स्मरणं यस्य, स्मरोपस्मारवारणम् ।।८२।।
नन्दोऽथ श्रीयकं बाहौ, धृत्वा मन्त्रिपदे न्यधात् । पुत्र एव भवेद् यस्मात्, पितृभारधुरन्धरः ।।८३।। कुर्वन् विचार्य व्यापारान्, श्रीयकः शकटालवत् । राज्यप्रासादभारस्स, भारपट्ट इवाभवत् ।।८४ ।। प्रायेण श्रीयकः कोशा-गेहे गच्छति नित्यशः । मन्वानो भ्रातृवद् भ्रातृ-स्नेहाद् भ्रातृप्रियामपि ।।८५।। अमात्यस्य विपन्नस्य, गते काले कियत्यपि ।
ततो वररुचिरपि, समेति नृपपर्षदि ।।८६।। * उत्तङ्गभ० २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। साध्यात् ६-१० ।। १. प्रातिकूलेन १० टि० ।। ति०६-१० ।। २. रोगभेदः १० टि० ।। बाहू ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org