________________
श्रीदशवकालिकसूत्रम्
४७९ ज्ञातं कुतोऽपि तातघ्नं, दृष्ट्वा तं छद्मिनं पुरः । श्रीयकस्य क्रोधवह्निः, क्षिप्ताहुतिरिवाज्वलत् ।।८७।।
अथान्यदा गृहे गत्वा, कोशायाः श्रीयकोऽब्रवीत् । भ्रातृवद् भ्रातृजायेति, तदुःखं ते निवेद्यते ।।८८।। तव भर्तुर्मम पितु-र्धातुश्च विरहप्रदः । जीवत्यद्यापि पापोऽय-मार्येऽनार्यो द्विजाधमः ।।८९।। तद्यावदुपकोशाया-मासक्तोऽस्त्येष पातकी । तावत् तां ब्रूहि पाय्योऽसौ, मद्यं वररुचिस्त्वया ।।१०।। कोशा स्वीकृत्य तद्वाच-मुपकोशां तदब्रवीत् । सापि मधूमपीप्यत् तं, स्त्रीवशः कुरुते न किम् ? ।।९१।। प्रातः साज्ञापयत् कोशां, कोशापि श्रीयकं ततः । दिव्यान्यानाययत् पद्मा-न्यसौ पद्मदादिव ।।१२।। राज्ञो ढौक्यन्त सर्वाणि, पुंसा श्रीयकमन्त्रिणः । राजैकमाददेऽन्यानि, तमूचेऽर्पय पर्षदः ।।१३।। सोऽप्येकैकं सदस्यानां, प्रत्येकां तदथार्पयत् । भावितं मदनफल-रसैर्वररुचेस्त्वदात् ।।९४ ।। पद्मान्यजिघ्रन् सर्वेऽपि, धूनयन्तः शिरोधराम् । क्षरन् मैदजलोन्मत्तः, कुम्भी कुम्भस्थलीमिव ।।९५।। अघ्राद् वररुचिः पद्म, सद्यस्तद्गन्धबाधया । चन्द्रकान्तां निशापीतां, सुरां तत्रैव चावमत् ।।१६।। धिग् धिगेतं ब्रह्मबन्धु, सीधुपानपरायणम् । इत्येवं निन्द्यमानोऽगाद्, वमन् परिषदो बहिः ।।९७।। प्रायश्चित्तं द्विजैर्दत्तं, सुरापाणाघहत् पपौ । तप्तं वपुः ततः प्राणै-मुक्तस्तापभियेव सः ।।९८ ।।
मुनीन्द्रः स्थूलभद्रोऽपि, सम्भूतगुरुसन्निधौ । सुधामिव श्रुतरसं, पिबन् व्रतमपालयत् ।।१९।। *तं च प्रपञ्चकर्तारं विलोक्य पितृवैरिणम् २.६-१० ।। . ०ङ्गीकृ० २.६-१० ।। १. ग्रीवाम् १० टि० ।। मुक्तद्विजैर्दत्तं ६-१० ।। २. विप्रं विप्रक्रियारहितं वा १० टि० ।। * ति० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org